सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 321, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 321

३१६ ॥ काशिका ॥ ४ । २ ॥
याश्वर्कः । आश्वैरुह्यते, आश्वो रथः । चतुर्भिर्वाह्यते, चातुरं शकटम् । चतुर्दश्यां
दृश्यते, चातुर्दशं रक्ष इति ॥
राष्ट्रावारपाराद् घखौ ॥ ९३ ॥
राष्ट्र अवारपार इत्येताभ्यां यथासंख्यं घखावित्येतौ प्रत्ययौ भवतः ।
राष्ट्रियः । अवारपारीणः ॥ विगृहीतादपीष्यते ॥ अवारीणः । पारीणः ॥ विप-
रीताच्च ॥ पारावारीणः । प्रकृतिविशेषोपादानमात्रेण तावत्प्रत्यया विधीयन्ते ।
तेषां तु जातादयोऽर्थाः समर्थविभक्तयश्च पुरस्ताद्वक्ष्यन्ते ॥
ग्रामाद्यखञौ ॥ ९४ ॥
ग्रामशब्दाद्य खञ् इत्येतौ प्रत्ययौ भवतः । ग्राम्यः । ग्रामीणः ॥
कत्र्यादिभ्यो ढकञ् ॥ ९५ ॥
कत्रि इत्येवमादिभ्यो ढकञ् प्रत्ययो भवति । कात्रियेकः । श्रौम्भेयकः ।
कत्रि । उम्भि । पुष्कर । पुष्कल । मोदन । कुम्भी । कुण्डिन । नगर । वञ्जी ।
भक्ति । माहिष्मती । चर्मण्वती * । ग्राम । उख्या ॥ कुल्याया यलोपश्च
कत्र्यादिः ॥
कुलकुक्षिग्रीवाभ्यः श्वास्यलङ्कारेषु ॥ ९६ ॥
कुलकुक्षिग्रीवाशब्देभ्यो यथासंख्यं श्वन् असि अलंकार इत्येतेषु जाता-
दिष्वर्थेषु ढकञ् प्रत्ययो भवति । कौलेयको भवति श्वा चेत् । कौलेयः ।
कौक्षेयको भवत्यसिश् चेत् । कौक्षेयः । ग्रैवेयको भवत्यलंकारश्चेत् । ग्रैवेयः
नद्यादिभ्यो ढक् ॥ ९७ ॥
नदी इत्येवमादिभ्यो ढक् प्रत्ययो भवति । नादेयम् । माहेयम् ।
नगरीशब्दोऽत्र पठ्यते । पौर्वनगरेयम् । के चित् पूर्वनगिरीति पठन्ति, विशेषात्
च प्रत्ययं कुर्वन्ति । पौरेयम् । वानेयम् । गैरियमिति । तदुभयमपि दर्श-
नप्रमाणम् । नदी । मही । वाराणसो । श्रावस्ती । कौशाम्बी । नवकौशाम्बी
काशफरी । खादिरी । पूर्वनगरी । पावा । मावा । साल्वा । दावी । दात्वी ।
वासेनकी ॥ वडवाया वृषे ॥
दक्षिणापश्चात्पुरसस्त्यक् ॥ ९८ ॥
दक्षिणा पश्चात् पुरस् इत्येतेभ्यस्त्यक् प्रत्ययो भवति शैषिकः । दाक्षि-
णात्यः । पाश्चात्यः । पौरस्त्यः ।
कापिश्याः ण्फक् ॥ ९९ ॥

  • चर्मती । इति पा० २ ।