सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 319, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 319

३१४ ॥ काशिका ॥ ४ ॥ २ ॥
वरण इत्येवमादिभ्य उत्पद्यस्य चातुरर्थिकस्य प्रत्ययस्य लुब्भवति ।
अजनपदार्थ आरम्भः । वरणानामदूरभवं नगरं । वरणाः । शृङ्गी । शाल्म-
लयः । चकारोऽनुक्तसमुच्चयार्थ आकृतिगणतामस्य बोधयति । कटुक*बदर्या
अदूरभवो ग्रामः, कटुकबदरी । शिरीषाः । काञ्ची । वरणाः, पूर्वी गौदौ †।
शालिङ्गायन । पर्णी । शृङ्गी । शाल्मलयः । सदावृक्षी । वणिकि । वणिक् ।
जालपद् । मधुरा । उज्जायिनी । गया । तक्षशिला । उरशा । आकृतिः ॥
शर्कराया वा ॥ ८३ ॥
शर्कराशब्दादुत्पद्यस्य चातुरर्थिकस्य प्रत्ययस्य वा लुब्भवति । वायग्रहणं
किम् । यावता शर्कराशब्दः कुमुदादिषु वराहादिषु च पठ्यते । तत्र पाठसाम-
र्थ्यात्प्रत्ययस्य पक्षे श्रवणं भविष्यति । एवं तर्ह्येतज् ज्ञापयति । शर्कराशब्दादौ-
त्सर्गिको भवति, तस्यायं विकल्पितो लुबिति । शर्करा । शार्करम् । गणपाठाच्च
श्रवणामुत्तरसूत्रे विहितौ च द्वौ प्रत्ययौ तदेवं षड्रूपाणि भवन्ति । शर्करा ।
शार्करम् । शर्करिकम् । शार्करकम् । शार्करिकम् । शर्केरीयमिति ॥
ठञ्छौ च ॥ ८४ ॥
शर्कराशब्दाट्ठञ् छ इत्येतौ प्रत्ययौ भवतश्चातुरर्थिकौ । यथासंभवम-
र्थसंबन्धः । शार्करिकम् । शर्केरीयम् ॥
नद्यां मतुप् ॥ ८५ ॥
नद्यामभिधेयायां मतुप्प्रत्ययो भवति चातुरर्थिकः । तन्नाम्नो देशस्य
विशेषणं नदी । उदुम्बरा यस्यां सन्ति, उदुम्बरावती । मशकावती । वीरण-
वती । पुष्करावती । इत्तुमती । द्रुमती । इह कस्मान्न भवति । भागीरथी
भैमरथी । मतुबन्तस्यातन्नामधेयत्वात् ॥
मध्वादिभ्यश्च ॥ ८६ ॥
मधु इत्येवमादिभ्यः शब्देभ्यो मतुप्प्रत्ययो भवति चातुरर्थिकः । अन-
द्यर्थ आरम्भः । मधुमान् । बिसवान् । मधु । बिस । स्थाणु । मुष्टि ‡ । रहु ।
वेणु । रम्य । चत्त । कर्कन्धु । शमी । किरीर । डिम । किंशरा । शर्यणा
महत् । महथ । दार्वाघाट । शर । इष्टका । तक्षशिला । शक्ति । आसन्दी
आसुति । शलाका । सामिधी । खडा । बेटा । मध्वादिः ॥
कुमुदनडवेतसेभ्यो ड्मतुप् ॥ ८७ ॥
कुमुद नड वेतस इत्येतेभ्यः शब्देभ्यो ड्मतुप् प्रत्ययो भवति चातुर्-


* कन्दुक । इति पा० २ ।
† पूर्व्या गोदी । अपरेण गोदो इति । पा० २ ।
‡ सृष्टि । इति पा० २ ।