काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 290, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ४ । १ ॥ २८५
गोधाया अपत्ये ढ्रक् प्रत्ययो भवति । गौधेरः । शुभादिष्वयं पठ्यते ।
तेन गौधेयोऽपि भवति ॥
आरगुदीचाम् ॥ १३० ॥
गोधाया अपत्ये उदीचामाचार्याणां मतेन आरक् प्रत्ययो भवति ।
गौधारः । आचार्याग्रहणं पूजार्थं, वचनसामर्थ्यादेव पूर्वेण समावेशो भविष्यति ।
आरग्वचनमनर्थकं, रका सिद्धत्वात् । ज्ञापकं त्वयमन्येभ्यो ऽपि भवतीति ।
जाडारः । पाण्डारः ॥
क्षुद्राभ्यो वा ॥ १३१ ॥
ढ्रगनुवर्तते, न चारक् । क्षुद्रा अङ्गहीना धर्महीना*श्च । अर्थधर्मैश्च
तदभिधायिन्यः स्त्रीलिङ्गाः प्रकृतयो निर्दिश्यन्ते । क्षुद्राभ्यो ऽपत्ये ढ्रक् प्रत्ययो
भवति । एकोरण्डेरः । काणेरः । षण्डेरः । दासेरः । दासेयः ॥
पितृष्वसुश्छण् ॥ १३२ ॥
पितृष्वसृशब्दादपत्ये छण्प्रत्ययो भवति । अणोपवादः । पैतृष्वस्रीयः ॥
ढकि लोपः ॥ १३३ ॥
पितृष्वसुरपत्यप्रत्यये ढकि परतो लोपो भवति । पैतृष्वसेयः । कथं
पुनरिह ढक् प्रत्ययः । एतदेव ज्ञापकं ढको भावस्य ॥
मातृष्वसुश्च ॥ १३४ ॥
पितृष्वसुरित्येतदपेक्षते, पितृष्वसुर्यदुक्तं तन्मातृष्वसुरपि भवति ।
छण्प्रत्ययो ढकि लोपश्च । मातृष्वस्रीयः । मातृष्वसेयः ॥
चतुष्पाद्भ्यो ढञ् ॥ १३५ ॥
चतुष्पादभिधायिनीभ्यः प्रकृतिभ्यो ऽपत्ये ढञ्प्रत्ययो भवति । अणादी-
नामपवादः । कामण्डलेयः । स्त्रैणैवाहेयः । जाम्बेयः ॥
गृष्ट्यादिभ्यश्च ॥ १३६ ॥
गृष्ट्यादिभ्यः शब्देभ्यो ऽपत्ये ढञ्प्रत्ययो भवति । अणादीनामपवादः ।
गार्ष्टेयः । हार्ष्टेयः । गृष्टिशब्दो यश्चतुष्पाद्वचनस्तनः पूर्वेण सिद्धः, अचतुष्पा-
दर्थे वचनम् । गृष्टि । दृष्टि । हलि । बलि । विग्रि । कुद्रि । वाजवस्ति ।
मिश्रयु† ॥
राजश्वशुराद्यत् ॥ १३७ ॥
- शीलहीनाश्चेति पा० २ ।
† बंलि । वंलि । हृष्टि । एते ऽधिकाः पुस्तकान्तरे ।