काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
DevanagariHindipublished828 पृष्ठ
पृष्ठ 284, कुल 828 में से
संदर्भ में पढ़ेंपृष्ठ 284
जैवन्तायनः । जैवन्तिः । कथमन्नन्तरो ऽश्वत्थामा द्रौणायन इत्युच्यते । नैवात्र
महाभारतद्रोणो गृह्यते । किं तर्ह्यनादिः । तत इदं गोत्रे प्रत्ययविधानम् ।
इदानीं श्रुतिसामान्यादध्यारोपेण तथाभिधानं भवति ॥
अनृष्यानन्तर्ये बिदादिभ्यो ऽञ् ॥ १०४ ॥
गोत्रइत्येव । बिदादिभ्यो गोत्रापत्ये ऽञ्प्रत्ययो भवति । बैदः । और्वः ।
ये पुनरनृषिशब्दाः पुत्रादयस्तेभ्यो ऽनन्तरापत्यएव भवति । पौत्रः । दौहित्रः ।
अनृष्यानन्तर्यमित्यस्यायमर्थः, अनृषिभ्यो ऽनन्तरे भवतीति । यद्ययमर्थश्चपत्ये
नैरन्तर्यप्रतिषेधो न कृतः स्यात् तत्रेष्टं न सिद्ध्यति । इन्द्रशूः सप्तमः काश्य-
पानाम् । अनन्तरापत्यरूपेणैव चाञाभिधानं भविष्यति । अवश्यं चैतदेवं
[L