काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
DevanagariHindipublished828 पृष्ठ
पृष्ठ 275, कुल 828 में से
संदर्भ में पढ़ेंपृष्ठ 275
२६० ॥ काशिका ॥ ४ । १ ॥
ऊरूत्तरपदादौपम्ये ॥ ६६ ॥
ऊरूत्तरपदात्प्रातिपदिकादौपम्ये गम्यमाने स्त्रियामूड् प्रत्ययो भवति।
कदलीस्तम्भोरूः । नागनाशोरूः । करभोरूः । औपम्यइति किम् वृत्तोरुः स्त्री
संहितशफलक्षणवामादेश्च ॥ ७० ॥
संहित शफ लक्षण वाम इत्येवमादेः प्रातिपदिकादूरूत्तरपदात्स्त्रियां
मूड् प्रत्ययो भवति । अनौपम्यार्थ आरम्भः । संहितोरूः । शफोरूः ।
णोरूः । वामोरूः ॥ सहितसहाभ्यां चेति वक्तव्यम् ॥ * ॥ सहितोरूः । सहोरूः
कद्रुकमण्डल्वोश्छन्दसि ॥ ७१ ॥
कद्रुशब्दात्कमण्डलुशब्दाच्च छन्दसि विषये स्त्रियामूड् प्रत्ययो भवति
कद्रूश्च वै सुपर्णी च । मा स्म कमण्डलूं शूद्राय दद्यात् । छन्दसीति किम्
कद्रुः । कमण्ड