सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 273, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 273

२६६ ॥ काशिका ॥ ४ । १ ॥
गमः । येषामत्र पुंयोगएवेष्यते तेषामानुगागममात्रं विधीयते । प्रत्ययस्तु पूर्वे-
णैव सिद्धः । अन्येषां तूभयं विधीयते । इन्द्राणी । वरुणानी । भवानी ।
शर्वाणी । रुद्राणी । मृडानी ॥ हिमारण्ययोर्महत्त्वे ॥ * ॥ महद्धिमं हिमानी ।
महदरण्यमरणयानी ॥ यवाद्दोषे ॥ * ॥ दुष्टो यवो यवानी ॥ यवनाल्लिप्याम् ॥ * ॥
यवनानी लिपिः ॥ * ॥ उपाध्यायामातुलाभ्यां वा ॥ * ॥ उपाध्यायी । उपाध्या-
यानी । मातुली । मातुलानी ॥ आचार्यादणत्वं च ॥ * ॥ आचार्यानी ।
आचार्या ॥ आर्यक्षत्रियाभ्यां वा ॥ * ॥ आर्याणी । आर्या । क्षत्रियाणी । क्षत्रिया ।
विना पुंयोगेन स्वार्थेवायं विधिः । पुंयोगे तु ङीषैव भवितव्यम् । आर्यी ।
क्षत्रियी ॥ मुद्गलाच्छन्दसि लिच्च ॥ * ॥ रथीरभून्मुद्गलानी गविष्टौ ॥
क्रीतात्करणपूर्वात् ॥ ५० ॥
करणं पूर्वमस्मिन्निति करणपूर्वं प्रातिपदिकम् । क्रीतशब्दान्तात्प्राति-
पदिकात्करणपूर्वात्स्त्रियां ङीष् प्रत्ययो भवति । वस्त्रेण क्रीता सा वस्त्रक्रीती ।
वसनक्रीती । करणपूर्वादिति किम् । सुक्रीता । दुष्क्रीता । इह कस्मान्न भवति
सा हि तस्य धनक्रीता प्राणेभ्योऽपि गरीयसी ।
इति । ङीबन्तेन समासः । अत इति चानुवर्तते । गति कारकोपपदानां
कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेरिति । बहुलं तदुच्यते, कर्तृकरणे कृता
बहुलमिति ॥
क्तादल्पाख्यायाम् ॥ ५१ ॥
करणपूर्वादित्येव । करणपूर्वात्प्रातिपदिकात् क्तान्तादल्पाख्यायां
प्रत्ययो भवति । अल्पाख्यायामिति समुदायापाधिः । अभ्रविलिप्ती गौः । सूपवि-
लिप्ती पात्री । अल्पसूपेत्यर्थः । अल्पाख्यायामिति किम् । चन्दनानुलिप्ता ब्राह्मणी
बहुव्रीहेश्चान्तोदात्तात् ॥ ५२ ॥
क्तादित्येव । बहुव्रीहिर्योऽन्तोदात्तस्तस्मात्स्त्रियां ङीष् प्रत्ययो भवति
स्वाङ्गपूर्वपदो बहुव्रीहिरिहोदाहरणम् । अस्वाङ्गपूर्वपदाद्विकल्पं वक्ष्यति । उरु-
भिन्ना । ऊरुभिन्नी । गलकृत्ती । केशलूनी । बहुव्रीहेरिति किम् । पा-
तिता ॥ अन्तोदात्तज्जातप्रतिषेधः ॥ * ॥ दन्तजाता । स्तनजाता ॥ पाणिगृही-
त्यादीनामर्थविशेषे ॥ * ॥ पाणिगृहीती भार्या । यस्यास्तु कथं चित्पाणिर्गृहीतः
पाणिगृहीता सा भवति ॥ नबहुनञ् सुकालसुखादिपूर्वादिति वक्तव्यम् ॥ * ॥
बहुकृता । नञ् । अकृता । सु । सुकृता । काल । मासजाता । संवत्सरजाता ।
सुखादिः । सुखजाता । दुःखजाता । जातिकालसुखादिभ्योनाच्छादनादित्येव-
मादिना बहुव्रीहेरन्तोदात्तत्वम् ॥