सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 233, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 233

२२६ ॥ काशिका ॥ ३ ॥ ३ ॥
गर्हायामिति निवृत्तम्। अनवकॢप्ति, रसंभावना। अमर्षो, ऽक्षमा। किं
ऽकिंवृत्ते चोपपदे ऽनवकॢप्त्यमर्षयोर्द्धातोर्लिङ्लटौ प्रत्ययौ भवतः। सर्वलकारा-
णामपवादः। बहुचः पूर्वनिपातो लक्षणव्यभिचारचिह्नम्। तेन यथासंख्यं
भवति। अनवकॢप्तौ तावत्। नावकल्पयामि। न संभावयामि। न श्रद्दधे, तत्र
भवान्नाम वृषलं याजयेत्। तत्र भवान्नाम वृषलं याजयिष्यति। को नाम वृषलो,
यं तत्र भवान् वृषलं याजयेत्। को नाम तत्र भवान्वृषलं याजयिष्यति।
अमर्षे। न मर्षयामि तत्र भवान्वृषलं याजयेत्, याजयिष्यति। को नाम वृषलो
यं तत्र भवान्याजयेत्, याजयिष्यति। भूतविवक्षायां तु क्रियातिपत्तौ वा लृङ्
भवति। भविष्यति नित्यम्। नावकल्पयामि तत्र भवान्नाम वृषलमयाजयिष्यत्।
किंकिलास्त्यर्थेषु लृट् ॥ १४६ ॥
अनवकॢप्त्यमर्षयोरिति वर्तते। किंकिलशब्दः समुदाय उपपदम्। अस्त्यर्था
अस्तिभवतिविद्यतयः। किंकिलास्त्यर्थेषूपपदेषु अनवकॢप्त्यमर्षयोर्द्धातोर्लृट्प्रत्ययो
भवति। लिङोपवादः। किंकिल नाम तत्र भवान्वृषलं याजयिष्यति।
नाम तत्र भवान्वृषलं याजयिष्यति। भवति नाम तत्र भवान्वृषलं याजयिष्य-
ति। विद्यते नाम तत्र भवान्वृषलं याजयिष्यति। न श्रद्दधे। न मर्षयामि
लिङ्निमित्तमिह नास्ति तेन लृङ् भवति ॥
जातुयदोर्लिङ् ॥ १४७ ॥
अनवकॢप्त्यमर्षयोरित्येव। जातु यदित्येतयोरुपपदयोरनवकॢप्त्यमर्षयोर्ग-
म्यमानयोर्द्धातोर्लिङ् प्रत्ययो भवति। लटो ऽपवादः। जातु तत्र भवान्वृषलं
याजयेत्। यन्नाम तत्र भवान्वृषलं याजयेत्। न श्रद्दधे, न मर्षयामि ॥
यदोर्लिङ्विधाने यदायत्वोरुपसंख्यानम् ॥ * ॥ यदा भवद्विधः क्षत्रियं
येत्। यदि भवद्विधः क्षत्रियं याजयेत्। न श्रद्दधे, न मर्षयामि। क्रियातिपत्तौ
भूते वा लृङ्, भविष्यति नित्यम् ॥
यच्चयत्रयोः ॥ १४८ ॥
अनवकॢप्त्यमर्षयोरित्येव। यच्च यत्र इत्येतयोरुपपदयोरनवकॢप्त्यमर्षयोर्ग-
म्यमानयोर्द्धातोर्लिङ् प्रत्ययो भवति। लटोपवादः। योगविभाग उत्तरार्थः,
यथासंख्यं नेष्यते। यच्च तत्र भवान् वृषलं याजयेत्। यत्र तत्र भवान् वृषलं
याजयेत्। क्रियातिपत्तौ यथायथं लृङ् भवति ॥
गर्हायां च ॥ १४९ ॥
अनवकॢप्त्यमर्षयोरिति निवृत्तम्। गर्हा निन्दा कुत्सेत्यनर्थान्तरम्। यच्च
यत्र इत्येतयोरुपपदयोर्द्धातोर्लिङ् प्रत्ययो भवति गर्हायां गम्यमानायाम्।