काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 23, कुल 828 में से
संदर्भ में पढ़ें१६ ॥ काशिका ॥ १ ॥ १ ॥
मिदचो ऽन्त्यात्परः ॥ ४७ ॥
अच इति निर्धारणे षष्ठी । जातौ चेदमेकवचनम् । अचां संनिविष्टा-
नामन्त्यादचः परो मिद्भवति । स्थानेयोगप्रत्ययपरत्वस्यायमपवादः । विरुणद्धि ।
मुञ्चति । पयांसि । मित्प्रदेशाः । रुधादिभ्यः श्नमित्येवमादयः । मज्जेरन्या-
त्पूर्वं नुमिच्छन्त्यनुषङ्गसंयोगादिलोपार्थम् । मग्नः । मग्नवान् । मङ्क्ता । मङ्क्तुम् ।
एच इग्घ्रस्वादेशे ॥ ४८ ॥
एचो ह्रस्वादेशे कर्तव्येऽगेव ह्रस्वो भवति नान्यः । रै । अतिरि । नौ ।
अतिनु । गो । उपगु । एच इति किम् । अतिखट्वः । अतिमालः । ह्रस्वा-
देशइति किम् । दे३वदत्त । देवद३त्त ॥
षष्ठी स्थानेयोगा ॥ ४९ ॥
परिभाषेयं योगनियमार्था । इह शास्त्रे या षष्ठी अनियतयोगा श्रूयते
सा स्थानेयोगैव भवति नान्ययोगा स्थानेयोगनिमित्तभूते सति सा प्रतिपत्तव्या ।
स्थानशब्दश्च प्रसङ्गवाची । यथा दर्भाणां स्थाने शरैः प्रस्तरितव्यमिति दर्भाणां
प्रसङ्गइति गम्यते । एवमिहापि अस्तेः स्थाने प्रसङ्गे भूर्भवति । भविता । भवि-
तुम् । भवितव्यम् । ब्रुवः प्रसङ्गे वचिर्भवति । वक्ता । वक्तुम् । वक्तव्यम् । प्रसङ्गे
संबन्धस्य निमित्तभूते ब्रुव इति षष्ठी । बह्वो हि षष्ठ्यर्थाः स्वस्वाम्यनन्तरस-
मीपसमूहविकारावयवादयस्तत्र यावन्तः शब्दे संभवन्ति तेषु सर्वेषु प्राप्तेषु
नियमः क्रियते षष्ठी स्थानेयोगेति । स्थाने योगो ऽस्या इति अधिकरणो बहु-
व्रीहिः । अत एव निपातनाच्च सप्तम्या अलुक् ॥
स्थानेन्तरतमः ॥ ५० ॥
स्थाने प्राप्यमाणानामन्तरतम आदेशो भवति सदृशतमः । कुतश्च पुन-
स्यान्तर्यम् । स्थानार्थगुणप्रमाणतः । स्थानतः । अकः सवर्णे दीर्घः । दण्डाग्रम्
यूपाग्रम् । द्वयोरकारयोः कण्ठ्य एव दीर्घे आकारो भवति । अर्थतः । वतण्डा
चासौ युवतिश्च वातण्ड्यायुवतिः । पुंवद्भावेनान्तरतमः पुंशब्दो ऽतिदिश्यते
गुणतः । पाकः । त्यागः । रागः । चजोः कुघिण्यतोारिति चकारस्याल्पप्राणस्या-
घोषस्य तादृश एव ककारो भवति जकारस्य घोषवतो ऽल्पप्राणस्य तादृक्
गकारः । प्रमाणतः । अमुष्मै । अमूभ्याम् । अदसोसेर्दादु दो म इति ह्रस्वस्य
ह्रस्वः दीर्घस्य दीर्घः । स्थानइति वर्तमाने पुनः स्थानेग्रहणं किम् । यत्रानेक-
मान्तर्यं संभवति तत्र स्थानत एवान्तर्यं बलीयो यथा स्यात् । चेता । स्तोता ।
प्रमाणतो ऽकारो गुणः प्राप्तस्तच्च स्थानत आन्तर्यादेकारौकारौ भवतः । तमब्-
ग्रहणं किम् । वाग्घसति । त्रिष्टुब्भसति । झयो होन्यतरस्यामिति हकारस्य