सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 22, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 22

॥ काशिका ॥ १ ॥ १ ॥ १५
दासः सिद्धो भवति। सर्वमिदं काण्डं स्वरादावपि पठ्यते। पुनर्वचनमनित्य-
त्वज्ञापनार्थं तेनायं कार्यनियमः सिद्धो भवति। इह च पुरा सूर्यस्योदेतोराधेयः,
पुरा क्रूरस्य विसृप, इति न लोकाव्ययनिष्ठेति षष्ठीप्रतिषेधो न भवति ॥
शि सर्वनामस्थानम् ॥ ४२ ॥
शि इत्येतत्सर्वनामस्थानसंज्ञं भवति। किमिदं शि इति। जश्शसोः
शिरादेशः। कुण्डानि तिष्ठन्ति। कुण्डानि पश्य। दधीनि। मधूनि। त्रपूंषि।
जतूनि। सर्वनामस्थानप्रदेशाः। सर्वनामस्थाने चासम्बुद्धावित्येवमादयः ॥
सुडनपुंसकस्य ॥ ४३ ॥
सुडिति पञ्च वचनानि सर्वनामस्थानसंज्ञानि भवन्ति नपुंसकादन्यत्र।
नपुंसके न विधिर्न प्रतिषेधस्तेन जस्रङ्गे सर्वनामस्थानसंज्ञा पूर्वैव भवत्येव।
राजा। राजानौ। राजानः। राज