काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 209, कुल 828 में से
संदर्भ में पढ़ें२०२ ॥ काशिका ॥ ३ ॥ ३ ॥
लिप्स्यमानसिद्धौ च ॥ ७ ॥
विभाषेत्येव । लिप्स्यमानात्सिद्धिर्लिप्स्यमानसिद्धिः, लिप्स्यमानसिद्धौ
गम्यमानायां भविष्यति काले धातोर्विभाषा लट् प्रत्ययो भवति । अकिंवृत्ता-
र्थोयमारम्भः । यो भक्तं ददाति सस्वर्गं गच्छति । यो भक्तं दास्यति स स्वर्गे
गमिष्यति । यो भक्तं दाता स स्वर्गे गन्ता । लिप्स्यमानाद् भक्तात्स्वर्गसिद्धि-
माचक्षाणो दातारं प्रोत्साहयति ॥
लोडर्थलक्षणे च ॥ ८ ॥
लोडर्थः प्रैषादिर्लक्ष्यते येन स लोडर्थलक्षणो धात्वर्थः, तत्र वर्तमाना-
द्धातोर्भविष्यति काले विभाषा लट् प्रत्ययो भवति । उपाध्यायश्चेदागच्छति ।
उपाध्यायश्चेदागमिष्यति । उपाध्यायश्चेदागन्ता । अथ त्वं छन्दो ऽधीष्व ।
अथ त्वं व्याकरणमधीष्व । उपाध्यायागमनमध्ययनप्रैषस्य लक्षणम् ॥
लिङ् चोर्ध्वमौहूर्त्तिके ॥ ९ ॥
भविष्यति विभाषा लोडर्थलक्षण इति सर्वमनुवर्त्तते । उर्ध्वमौहूर्त्तिके भवि-
ष्यति काले लोडर्थलक्षणार्थे वर्तमानाद्धातोर्विभाषा लिङ् प्रत्ययो भवति, चका-
राल्लट् च । ऊर्द्धं मुहूर्त्ताद्भव ऊर्ध्वमौहूर्त्तिकः । निपातनात्समासः, उत्तरपदवृ-
द्विश्च । भविष्यतश्चैतद्विशेषणम् । ऊर्ध्वं मुहूर्त्तादुपरि मुहूर्त्तस्य उपाध्यायश्चे-
दागच्छेत्, उपाध्यायश्चेदागच्छति, उपाध्यायश्चेदागमिष्यति, उपाध्यायश्चेदा-
गन्ता । अथ त्वं छन्दो ऽधीष्व । अथ त्वं व्याकरणमधीष्व ॥
तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् ॥ १० ॥
भविष्यतीत्येव । क्रियार्थायां क्रियायामुपपदे धातोर्भविष्यति काले तुमु-
न्ण्वुलौ प्रत्ययौ भवतः । भोक्तुं व्रजति । भोजको व्रजति । भुजिक्रियार्थो व्रजि-
रत्रोपपदम् । क्रियायामिति किम् । भित्तिष्यत्यस्य जटाः । क्रियार्थायामिति
किम् । धावतस्ते पतिष्यति दण्डः । अथ किमर्थं ण्वुल् विधीयते । यावता
ण्वुल्तृचाविति सामान्येन विहित एव सोस्मिन्नपि विषये भविष्यति । लटा
क्रियार्थोपपदेन बाध्येत । वासरूपविधिना सोपि भविष्यति । एवं तर्हीतज्
ज्ञाप्यते क्रियायामुपपदे क्रियार्थायां वासरूपेण तृजादयो न भवन्तीति । तेन
कर्त्ता व्रजति विक्षेपो व्रजतीत्येवमादि निवर्त्त्यते ॥
भाववचनाश्च ॥ ११ ॥
भविष्यतीत्येव । भाववदिति प्रकृत्य ये घञादयो विहितास्ते च भाववचना
भविष्यति काले क्रियायामुपपदे क्रियार्थायां भवन्ति । किमर्थमिदं यावता विहिता
एव ते । क्रियार्थोपपदे विहितेनास्मिन्विषये तुमुना बाध्येरन् । वासरूपविधित्वाच्च