काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 208, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ३ ॥ ३ ॥ २०१
बाहुलकं प्रकृतेस्तनुदृष्टेः प्रायसमुच्चयनादपि तेषाम् ।
कार्यसशेषविधेश्च तदुक्तं नैगमरूढिभवं हि सुसाधु ॥ १ ॥
नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकम् ।
यन्न पदार्थविशेषसमुत्थं प्रत्ययतः प्रकृतेश्च तदूह्यम् ॥ २ ॥
संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे ।
कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु ॥ ३ ॥
भूतेपि दृश्यन्ते ॥ २ ॥
पूर्वेण वर्तमानाधिकाराद्भूतार्थमिदं वचनम् । भूते काले उणादयः प्रत्यया
दृश्यन्ते । वृत्तमिदं वर्त्म । चरितं तदिति चर्म । भसितं तदिति भस्म ।
दृशिग्रहणं प्रयोगानुसारार्थम् ॥
भविष्यति गम्यादयः ॥ ३ ॥
भविष्यति काले गम्यादयः शब्दाः साधवो भवन्ति । प्रत्ययस्यैव भवि-
ष्यत्कालता विधीयते न प्रकृतेः । गमी ग्रामम् । आगामी । प्रस्थायी । प्रति-
रोधी । प्रतिबोधी । प्रतियोधी । प्रतियोगी । प्रतियायी । आयायी । भावी ॥
अनद्यतनउपसंख्यानम् ॥ * ॥ श्वो गमी ग्रामम् ॥
यावत्पुरानिपातयोर्लट् ॥ ४ ॥
भविष्यतीत्येव । यावत्पुराशब्दयोर्निपातयोरुपपदयोर्भविष्यति काले
धातोर्लट् प्रत्ययो भवति । यावद्भुङ्क्ते । पुरा भुङ्क्ते । निपातयोरिति किम् ।
यावद्वास्यति तावद्भोक्ष्यते । करणभूतया पुरा व्रजिष्यति ॥
विभाषा कदाकर्ह्योः ॥ ५ ॥
कदा कर्हि इत्येतयोरुपपदयोर्विभाषा भविष्यति काले धातोर्लट् प्रत्ययो
भवति । कदा भुङ्क्ते । कदा भोक्ष्यते । कदा भोक्ता । कर्हि भुङ्क्ते । कर्हि
भोक्ष्यते । कर्हि भोक्ता ॥
किंवृत्ते लिप्सायाम् ॥ ६ ॥
विभाषेति वर्तते । किमो वृत्तं किंवृत्तम् ॥ वृत्तग्रहणेन तद्विभक्त्यन्तं
प्रतीयात् डतरडतमौ चेति परिसंख्यानं स्मर्यते ॥ किंवृत्तउपपदे लिप्सायां
भविष्यति काले धातोर्विभाषा लट् प्रत्ययो भवति । लिप्सा, लब्धुमिच्छा
प्रार्थनाभिलाषः । कं भवन्तो भोजयन्ति । कं भवन्तो भोजयितारः । लब्धु-
कामः पृच्छति । कतरो भिक्षां दास्यति, ददाति, दाता वा । कतमो भिक्षां
दास्यति, ददाति, दाता वा । लिप्सायामिति किम् । कः पाटलिपुत्रं गमिष्यति ॥