सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 198, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 198

अमित्रः शत्रुः । अमित्रे कर्त्तरि द्विषेर्द्धातोः शतृप्रत्ययो भवति । द्विषन्
द्विषन्तौ । द्विषन्तः । अमित्रइति किम् । द्वेष्टि भार्या पतिम् ॥
सुञो यज्ञसंयोगे ॥ १३२ ॥
यज्ञेन संयोगो यज्ञसंयोगः । यज्ञसंयुक्ते ऽभिषवे वर्त्तमानात्सुनोतेर्द्धातोः
शतृप्रत्ययो भवति । सर्वे सुन्वन्तः । सर्वे यजमानः सत्त्रिण उच्यन्ते । संयोग-
ग्रहणं प्रधानकर्तृप्रतिपत्त्यर्थम् । याजकेषु मा भूत । यज्ञसंयोगइति किम् । सु-
नोति सुराम् ॥
अर्हः प्रशंसायाम् ॥ १३३ ॥
प्रशंसा स्तुतिः । अर्हतेर्द्धातोः प्रशंसायां शतृप्रत्ययो भवति । अर्हन्निह भवा-
न्विद्याम् । अर्हन्निह भवान्पूजाम् । प्रशंसायामिति किम् । अर्हति चोरो वधम् ॥
आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु ॥ १३४ ॥
भाजभासेति क्विपं वक्ष्यति । आ एतस्मात् क्विपशब्दाद्यानित ऊर्ध्वम-
नुक्रमिष्यामस्तच्छीलादिषु कर्तृषु ते वेदितव्याः । अभिविधौ चायमाङ् । तेन
क्विपोऽप्ययमर्थनिर्देशः । तदिति धात्वर्थः शीलादिविशेषणत्वेन निर्द्दिश्यते ।
तच्छीलो यः स्वभावतः फलानपेक्षस्तत्र प्रवर्त्तते । तद्धर्मा तदाचारः, यः स्व-
धर्मे ममायमिति प्रवर्त्तते विनापि शीलेन । तत्साधुकारी यो धात्वर्थे साधु
करोति । उत्तरत्रैवोदाहरिष्यामः ॥
तृन् ॥ १३५ ॥
सर्वधातुभ्यस्तृन्प्रत्ययो भवति तच्छीलादिषु कर्तृषु । तकारः स्वरार्थः ।
तच्छीले तावत् । कर्त्ता कटान् । वदिता जनापवादान् । तद्धर्मिणि । मुण्डयि-
तारः श्राविष्ठायना भवन्ति वधूमूढाम् । अन्नमपहर्त्तार आहरका भवन्ति श्राद्धे
सिद्धे । उचेतारस्तौल्वलायना भवन्ति पुत्रे जाते तत्साधुकारिणि । कर्त्ता क-
टम् । गन्ता खेटम् ॥ तृन्विधावुत्वित्त्वं चानुपसर्गस्य ॥ * ॥ होता । पोता । अनु-
पसर्गस्येति किम् । उद्गाता । प्रतिहर्त्ता । तृन्नेव भवति । स्वरविशेषः ॥ नयते-
र्बुक् च ॥ * ॥ नेष्टा ॥ त्विषेर्द्देवतायामकारश्चोपधाया अनिट्त्वं च ॥ * ॥
त्वष्टा ॥ चदेश्च नियुक्ते ॥ * ॥ चत्ता । क्व चिदधिकृत उच्यते ॥ हन्तेश्च
तृत्व्य् ॥ * ॥ सत्तृभ्यः संगृहीतृभ्यः । स्वरे विशेषः ॥
अलंकृञ्निराकृञ्प्रजनोत्प चोत्पतोन्मदरुच्यपत्र-
पवृधुवृधूसहचर इष्णुच् ॥ १३६ ॥
अलंङ्कृञादिभ्यो धातुभ्यस्तच्छीलादिषु कर्तृषु इष्णुच् प्रत्ययो भवति ।
अलंकरिष्णुः । निराकरिष्णुः । प्रजनिष्णुः । उत्पचिष्णुः । उत्पत्निष्णुः । उन्म-