काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 196, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ३ ॥ २ ॥ १८९
अपरोक्षे च ॥ ११९ ॥
अपरोक्षे च भूतानद्यतनेऽर्थे वर्तमानाद्धातोः स्मउपपदे लट् प्रत्ययो भव-
ति । एवं स्म पिता ब्रवीति । इति स्मोपाध्यायः कथयति ॥
ननौ पृष्टप्रतिवचने ॥ १२० ॥
अनद्यतने परोक्षइति निवृत्तम् । भूतसामान्ये विधिरयम् । ननुशब्दउप-
पदे प्रश्नपूर्वके प्रतिवचने भूतेऽर्थे लट् प्रत्ययो भवति । लुङोऽपवादः । अकार्षीः
कटं देवदत्त, ननु करोमि भोः । अवोचस्तत्र किं चिद्देवदत्त, ननु ब्रवीमि भोः ।
पृष्टप्रतिवचन इति किम् । नन्वकार्षीन्माणवकः ॥
नन्वोर्विभाषा ॥ १२१ ॥
भूतइत्येव । नशब्दे नुशब्दे चोपपदे पृष्टप्रतिवचने विभाषा लट् प्रत्ययो
भवति भूते । अकार्षीः कटं देवदत्त, न करोमि भोः । नाकार्षम् । अहं नु क-
रोमि । अहं न्वकार्षम् ॥
पुरि लुङ् चास्मे ॥ १२२ ॥
अनद्यतनग्रहणमिह मण्डूकप्लुत्यानुवर्तते । पुरःशब्दउपपदे स्मशब्दव-
र्जिते भूतानद्यतनेऽर्थे विभाषा लुङ् प्रत्ययो भवति लट् च । ताभ्यां मुक्ते पक्षे
यथाविषयमन्येऽपि प्रत्यया भवन्ति । वसन्तीह पुरा छात्राः । अवात्सुः पुरा छा-
त्राः । अवसञ्चिह पुरा छात्राः । ऊषुरिह पुरा छात्राः । अस्मेति किम् । न-
लेन स्म पुराधीयते ॥
वर्त्तमाने लट् ॥ १२३ ॥
आरब्धोऽपरिसमाप्तश्च वर्त्तमानः, तस्मिन्वर्तमानेऽर्थे वर्तमानाद्धातोः
लट् प्रत्ययो भवति । पचति । पठति ॥
लटः शतृशानचावप्रथमासमानाधिकरणे ॥ १२४ ॥
लटः शतृशानचावित्येतावादेशौ भवतः, अप्रथमान्तेन चेत्तस्य सामा-
नाधिकरण्यं भवति । पचन्तं देवदत्तं पश्य । पचमानं देवदत्तं पश्य । पचता
कृतम् । पचमानेन कृतम् । अप्रथमासमानाधिकरणे इति किम् । देवदत्तः पचति ।
लडिति वर्तमाने पुनर्लट्ग्रहणमधिकविधानार्थम् । क्वचित् प्रथमासमानाधिक-
रणेऽपि भवति । सन्ब्राह्मणः । अस्ति ब्राह्मणः । विद्यते ब्राह्मणः । विद्यमानो
ब्राह्मणः । जुह्वत् । जुहोति । अधीयानः । अधीते ॥ माद्याक्रोशे ॥ * ॥ मा
पचन् । मा पचमानः । के चिद्विभाषाग्रहणमनुवर्तयन्ति नन्वोर्विभाषेति । सा
च व्यवस्थिता । तत्र यथादर्शनं प्रयोगा नेतव्याः ॥
सम्बोधने च ॥ १२५ ॥