सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 192, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 192

॥ काशिका ॥ ३ ॥ २ ॥ १८५
कर्मण्युपपदे विपूर्वात्क्रीणातेर्धातोरिनिप्रत्ययो भवति । कर्मणीति वर्त-
माने पुनः कर्मग्रहणं कर्तुः कुत्सानिमित्ते कर्मणि यथा स्यात् । कर्ममात्रे मा
भूत् । सोमविक्रयी । रसविक्रयी । इह न भवति । धान्यविक्रयः ॥
दृशेः क्वनिप् ॥ ९४ ॥
कर्मणीत्येव । दृशेर्धातोः कर्मण्युपपदे क्वनिप् प्रत्ययो भवति । मेरु-
दृश्वा । परलोकदृश्वा । अन्येभ्योऽपि दृश्यन्तइति क्वनिपि सिद्धे पुनर्वचनं प्रत्य-
यान्तरनिवृत्त्यर्थम् ॥
राजनि युधिकृञः ॥ ९५ ॥
कर्मणीत्येव । राजन्शब्दे कर्मण्युपपदे युध्यतेः करोतेश्च क्वनिप् प्रत्ययो
भवति । ननु च युधिरकर्मकः । अन्तर्भावितण्यर्थः सकर्मको भवति । राज-
युध्वा । राजानं योधितवानित्यर्थः । राजकृत्वा ॥
सहे च ॥ ९६ ॥
सहशब्दे चोपपदे युधिकृञोर्धात्वोः क्वनिप्प्रत्ययो भवति । असत्त्ववा-
चित्वादत्रोपपदं कर्मणा विशेष्यते । सहयुध्वा । सहकृत्वा ॥
सप्तम्यां जनेर्डः ॥ ९७ ॥
सप्तम्यन्तउपपदे जनेर्धातोर्डः प्रत्ययो भवति । उपसरे जातः उपसरजः ।
मन्दुरजः ॥
पञ्चम्यामजातौ ॥ ९८ ॥
पञ्चम्यन्तउपपदे जातिवर्जिते जनेर्डः प्रत्ययो भवति । बुद्धिजः । संस्का-
रजः । दुःखजः । अजाताविति किम् । हस्तिनो जातः । अश्वाज्जातः ॥
उपसर्गे च संज्ञायाम् ॥ ९९ ॥
उपसर्गे चोपपदे जनेर्डः प्रत्ययो भवति संज्ञायां विषये । समुदायोपाधिः
संज्ञा । अथेमा मानव्यो प्रजाः ॥
अनौकर्मणि ॥ १०० ॥
अनुपूर्वाद् जने कर्मण्युपपदे डः प्रत्ययो भवति । पुमांसमनुजातः पुम-
नुजः । स्त्र्यनुजः ॥
अन्येष्वपि दृश्यते ॥ १०१ ॥
अन्येष्वप्युपपदेषु कारकेषु जनेर्डप्रत्ययो दृश्यते । सप्तम्यामित्युक्तमसप्त-
म्यामपि दृश्यते । न जायते इत्यजः । द्विर्जाताः द्विजाः । पञ्चम्यामजातावि-
त्युक्तं जातावपि दृश्यते । ब्राह्मणजो धर्मः । क्षत्रियजं युद्धम् । उपसर्गे संज्ञा-
यामित्युक्तम् असंज्ञायामपि दृश्यते । अभिजाः । परिजाः । केशाः । नखाः