काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 184, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ३ ॥ २ ॥ १७७
आशिषि हनः ॥ ४९ ॥
'ड' इति वर्तते । आशिषि गम्यमानायां हन्तेर्धातोः कर्मण्यपपदे डप्र-
त्ययो भवति । शत्रुं वध्यात्सिंहः । शत्रुहः । आशिषीति किम् । शत्रुघातः ॥
दारावाह्नो ऽणन्तस्य च टः संज्ञायाम् ॥ * ॥ दारावुपपदे आङ्पूर्वाद्धन्तेरण्
प्रत्ययो भवति, अन्तस्य च टकारादेशो भवति, संज्ञायां विषये । दारु आहन्ति,-
दार्व्वाघाटः ॥ चारौ वा ॥ * ॥ आङ्पूर्वाद्धन्तेश्चारावुपपदे, ऽण्, अन्तस्य वा
टकारादेशः । चार्वाघाटः । चार्वाघातः ॥ कर्मणि समिश्च ॥ * ॥ कर्मण्युपपदे
संपूर्वाद्धन्तेरण्प्रत्ययो ऽन्तस्य च वा टकारादेशः । वर्णान्संहन्ति, वर्णसंघाटः ।
पदानि संहन्ति पदसंघाटः । पदसंघातः ॥
अपे क्लेशतमसोः ॥ ५० ॥
अपपूर्वाद्धन्तेः क्लेशतमसोः कर्मणोरुपपदयोर्डप्रत्ययो भवति । क्लेशापहः
पुत्रः । तमोपहः सूर्यः । अनाशीर्थ आरम्भः ॥
कुमारशीर्षयोर्णिनिः ॥ ५१ ॥
हन इति वर्तते । कुमार शीर्ष इत्येतयोरुपपदयोः हन्तेर्णिनिः प्रत्ययो
भवति । कुमारघाती । शीर्षघाती । निपातनाच्छिरसः शीर्षभावः ॥
लक्षणे जायापत्योष्टक् ॥ ५२ ॥
हन्तेर्जायापत्योः कर्मणोरुपपदयोर्लक्षणवति कर्त्तरि टक् प्रत्ययो भव-
ति । जायाघ्नो ब्राह्मणः । पतिघ्नी वृषली । अथ वा लक्षणे द्योत्ये टक्प्रत्ययः ॥
अमनुष्यकर्तृके च ॥ ५३ ॥
अमनुष्यकर्तृके वर्तमानाद्धन्तेर्धातोः कर्मण्यपपदे टक् प्रत्ययो भवति ।
जायाघ्नस्तिलकालकः । पतिघ्नी पाणिरेखा । श्लेष्मघ्नं मधु । पित्तघ्नं घृतम् ।
अमनुष्यकर्तृके इति किम् । शत्रुघातः शूद्रः । इह कस्मान्न भवति । चौरघातो
हस्ती । कृत्यल्युटो बहुलमिति बहुलवचनादण् भवति ॥
शक्तौ हस्तिकपाटयोः ॥ ५४ ॥
शक्तौ गम्यमानायां हस्तिकपाटयोः कर्मणोरुपपदयोर्हन्तेष्टक् प्रत्ययो
भवति । मनुष्यकर्त्रार्थ आरम्भः । हस्तिनं हन्तुं शक्तः । हस्तिघ्नो मनुष्यः ।
कपाटघ्नश्चोरः । शक्ताविति किम् । विषेण हस्तिनं हन्ति हस्तिघातः ॥
पाणिघाताडघौ शिल्पिनि ॥ ५५ ॥
पाणिघ ताडघ इत्येतौ शब्दौ निपात्येते शिल्पिनि कर्तरि । पाणि
ताड इत्येतयोः कर्मणोरुपपदयोर्हन्तेर्धातोः कः प्रत्ययो भवति, तस्मिंश्च परतो
१२