काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 170, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ३ । १ । ३ ॥ १४२
प्रत्यपिभ्यां ग्रहेश्छन्दसि ॥ ११८ ॥
प्रति अपि इत्येवंपूर्वाद्ग्रहेः क्यप् प्रत्ययो भवति छन्दसि विषये । प्रतस्यं
न प्रतिगृह्यम् । तस्मादप्यपिगृह्यम् । छन्दसीति किम् । प्रतिग्राह्यम् । अपिग्राह्यम् ॥
पदास्वैरिबाह्यापक्ष्येषु च ॥ ११९ ॥
पदे ऽस्वैरिणि बाह्यायां पक्ष्येचार्थे ग्रहेर्द्धातोः क्यप् प्रत्ययो भवति । पदे
तावत् । प्रगृह्यं पदं, यस्य प्रगृह्यसंज्ञा विहिता । अवगृह्यं पदं, यस्यावग्रहः क्रि-
यते । अस्वैरी परतन्त्रः । गृह्यका रमे । गृहीतका इत्यर्थः । बाह्यायाम् । ग्रा-
मगृह्या सेना । नगरगृह्या सेना । ग्रामनगराभ्यां बहिर्भूतेत्यर्थः । स्वैरितिकुनिर्द्दु-
र्द्धादन्यत्र न भवति । पक्षे भवः पक्ष्यः । वासुदेवपक्ष्याः । अर्जुनपक्ष्याः । तत्प-
क्षाश्रिता इत्यर्थः ॥
विभाषा कृवृषोः ॥ १२० ॥
कृञो वृषेश्च विभाषा क्यप् प्रत्ययो भवति । करोतेर्ण्यति प्राप्ते वर्षते-
श्चेदुपधत्वादित्ये क्यपि विभाषारभ्यते । कृत्यम् । कार्यम् । वृष्यम् । वर्ष्यम् ॥
युग्यं च पत्रे ॥ १२१ ॥
युग्यमिति निपात्यते पत्रं चेत्तद्भवति । पतत्यनेनेति पत्रं, वाहनमुच्यते ।
युग्यो गौः । युग्योऽश्वः । युग्यो हस्ती । युजेः क्यप् कुत्वं च निपात्यते । पत्र-
मिति किम् । योग्यमन्यत् ॥
अमावसदन्यतरस्याम् ॥ १२२ ॥
अमाशब्दः सहार्थे वर्तते । तस्मिन्नुपपदे वसेर्द्धातोः कालेऽधिकारे ण्यत्प्र-
त्ययो भवति, तस्यान्यतरस्यां वृद्धाभावो निपात्यते । सह वसतोऽस्मिन्काले सूर्य-
चन्द्रमसाविति अमावास्या । अमावस्या । एकदेशविकृतस्यानन्यत्वादमावा-
स्याया वेत्यत्रामावास्याशब्दस्यापि ग्रहणं भवति ।
अमावसोरेतं ण्यतोर्निपातयाम्यवृद्धिताम्