काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 162, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ३ । १ ॥ १५५
दिव् इत्येवमादिभ्यो धातुभ्यः श्यन्प्रत्ययो भवति । शपोऽपवादः ।
नकारः स्वरार्थः, शकारः सार्वधातुकार्थः । दीव्यति । सीव्यति ॥
वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्त्रुटिलषः ॥ ७० ॥
उभयत्र विभाषेयम् । टुभ्राश टुभ्लाशृ दीप्तौ, भ्रमु अनवस्थाने, भ्रमु
चलने, द्वयोरपि ग्रहणम् । क्रमु पादविक्षेपे, क्लमु ग्लानौ, त्रसी उद्वेगे, त्रुटि
छेदने, लष कान्तौ, एतेभ्यो वा श्यन् प्रत्ययो भवति । भ्राशते । भ्राश्यते ।
भ्लाशते । भ्लाश्यते । भ्रमति । भ्राम्यति । क्रामति । क्राम्यति । क्लामति ।
क्लाम्यति । त्रसति । त्रस्यति । त्रुटति । त्रुट्यति । लषति । लष्यति ॥
यसोऽनुपसर्गात् ॥ ७१ ॥
यसु प्रयत्ने दैवादिकः तस्मान्नित्यं श्यनि प्राप्ते ऽनुपसर्गाद्विकल्प उच्यते।
यसोऽनुपसर्गाद्वा श्यन्प्रत्ययो भवति । यस्यति । यसति । अनुपसर्गादिति किम् ।
आयस्यति । प्रयस्यति ॥
संयसश्च ॥ ७२ ॥
सोपसर्गार्थ आरम्भः । संपूर्वाच्च यसेर्वा श्यन्प्रत्ययो भवति । संयस्य-
ति । संयसति ॥
स्वादिभ्यः श्नुः ॥ ७३ ॥
षुञ् अभिषवे, इत्येवमादिभ्यो धातुभ्यः श्नुप्रत्ययो भवति । शपोप-
वादः । सुनोति । सिनोति ॥
श्रुवः शृ च ॥ ७४ ॥
श्रुवः श्नुप्रत्ययो भवति तत्संनियोगेन श्रुवः शृ इत्ययमादेशो भवति ।
शृणोति । शृणुतः । शृण्वन्ति ॥
अश्नोतेरन्यतरस्याम् ॥ ७५ ॥
अशू व्याप्तौ भौवादिकः, अस्मादन्यतरस्यां श्नुप्रत्ययो भवति ।
अश्नोति । अशति ॥
तनूकरणे तक्षः ॥ ७६ ॥
तक्षू त्वक्षू तनूकरणे, अस्मात्तनूकरणे वर्त्तमानादन्यतरस्यां श्नुप्रत्ययो
भवति । अनेकार्थत्वाद्धात्तूनां विशेषेणोपादानम् । तक्षति काष्ठम् । तक्ष्णो-
ति काष्ठम् । तनूकरणइति किम् । संतक्षति वाग्भिः ॥
तुदादिभ्यः शः ॥ ७७ ॥
तुद व्यथने, इत्येवमादिभ्यो धातुभ्यः शप्रत्ययो भवति । शपोपवादः ।
शकारः सार्वधातुकसंज्ञार्थः । तुदति । नुदति ॥