काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 138, कुल 828 में से
संदर्भ में पढ़ेंअथो आभ्यामहरप्यधीतम् । अस्मै छात्राय कम्बलं देहि, अथो अस्मै शाटकमपि
देहि । अस्य छात्रस्य शोभनं शीलम्, अथो अस्य प्रभूतं स्वम् * अन्वादेशवचनं
साकच्कार्थम् । इमकाभ्यां छात्राभ्यां रात्रिरधीता, अथो आभ्यामहरप्यधीतम् ।
नेह पश्चादुच्चारणमात्रमन्वादेशः, किं तर्हि एकस्यैवाभिधेयस्य पूर्वे शब्देन
प्रतिपादितस्य द्वितीयं प्रतिपादनमन्वादेशः । तेनेह न भवति देवदत्तं भोजय,
इमं च यज्ञदत्तमिति ॥
एतदस्तसोस्त्रतसौ चानुदात्तौ ॥ ३३ ॥
अन्वादेशे अनुदात्त इति वर्तते । एतदो ऽन्वादेशविषयस्य अशादेशो
भवति अनुदात्तस्तसोः परतः । तौ चापि त्रतसावनुदात्तौ भवतः । एतस्मिन्
ग्रामे सुखं वसामः । अथो अत्र युक्ता अधीमहे । एतस्माच्छात्राच्छन्दोऽधीष्व,
अथो अतो व्याकरणमप्यधीष्व । सर्वोऽनुदात्तं पदं भवति । एतदो ऽशित्यन्वादेशे
ऽश्त्वे पुनर्वचनमनुदात्तार्थम् ॥
द्वितीयाटौस्स्वेनः ॥ ३४ ॥
अन्वादेशे अनुदात्त इति वर्तते । द्वितीया टा ओस् इत्येतेषु परतः
इदमेतदोरन्वादेशविषययोरेनशब्द आदेशो भवति अनुदात्तः । इदमो मण्डूक-
प्लुतिन्यायेनानुवृत्तिः । इमं छात्रं छन्दोऽध्यापय । अथो एनं व्याकरणमध्यापय ।
अनेन छात्रेण रात्रिरधीता, अथो एनेनाहरप्यधीतम् । अनयोश्छात्रयोः शोभनं
शीलम्, अथो एनयोः प्रभूतं स्वम् । एतदः खल्वपि । एतं छात्रं छन्दो ऽध्या-
पय, अथो एनं व्याकरणमप्यध्यापय । एतेन छात्रेण रात्रिरधीता, अथो एनेना-
हरप्यधीतम् । एतयोश्छात्रयोः शोभनं शीलम्, अथो एनयोः प्रभूतं स्वम् ॥
इनदिति नपुंसकैकवचने वक्तव्यम् ॥ * ॥ प्रक्षालयैनत् । परिवर्त्तयैनत् । इह
कस्मान्न भवति । अयं दण्डे। हरनेन । एतमानं हितं विद्धादिति । यत्र किं
चिद् विधाय वाक्यान्तरेण पुनस्तदुपदिश्यते सो ऽन्वादेशः । इह तु वस्तुनि-
र्देशमात्रं कृत्वा एकमेव विधानम् ॥
आर्द्धधातुके ॥ ३५ ॥
आर्द्धधातुके इत्यधिकारो ऽयं, ययतस्त्रियावेजित इति यावत् । यदिद-
मूर्द्ध्वमनुक्रमिष्यामस्तदार्द्धधातुके वेदितव्यम् । वक्ष्यति हनो वध लिङि ।
वध्यात् । आर्द्धधातुकइति किम् । हन्यात् । विषयसप्तमी चेयं न परसप्तमी ।
तेनार्द्धधातुकविवक्षायामादेशेषु कृतेषु पश्चात्तदाश्रयाः प्रत्यया भवन्ति । भव्यम् ।
प्रचेयम् । वास्तव्यम् ॥
- 'एतस्माच्छात्राच्छन्दो ऽधीष्व । अथो अस्माद्व्याकरणमप्यधीष्व' । इत्यत्राधिकं क्व
चित् ।