सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 114, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 114

॥ काशिका ॥ २ ॥ ३ ॥ १०४
शब्दाः कर्मधारये समासे वा पूर्वे प्रयोक्तव्याः । कडारजैमिनिः । जैमिनिकडारः ।
कडार । गडुल । काण । खञ्ज । कुण्ठ । खञ्जर । खलति । गौर । एडु ।
भिक्षुक । पिङ्गल । तनु । वटर । कर्मधारय इति किम् । कडारपुरुषो ग्रामः ॥
इति श्रीजयादित्यरचितायां काशिकायां वृत्तौ
द्वितीयस्याध्यायस्य द्वितीयः पादः ॥
॥ अथ द्वितीयाध्यायस्य तृतीयः पादः ॥
अनभिहिते ॥ १ ॥
अनभिहितइत्यधिकारोयं वेदितव्यः । यदित ऊर्ध्वमनुक्रमिष्यामो ऽनभि-
हितइत्येवं तद्वेदितव्यम् । अनभिहिते ऽनुक्ते ऽनिर्दिष्टे कर्मादौ विभक्तिर्भवति ।
केनानभिहिते, तिङ्कृत्तद्धितसमासैः, परिसंख्यानम् । वक्ष्यति कर्मणि द्वितीया । कटं
करोति । ग्रामं गच्छति । अनभिहितइति किम् । तिङ् । क्रियते कटः । कृत् । कृतः
कटः । तद्धित । शत्यः । शतिकः । समास । प्राप्तमुदकं यं ग्रामं, प्राप्तोदको
ग्रामः । परिसंख्यानं किम् । कटं करोति भीष्ममुदारं दर्शनीयम् । बहुषु बहुवच-
नमित्येवमादिना संख्यावाच्यत्वेन विभक्तीनामुपदिष्टा, तत्र विशेषणार्थमिदमा-
रभ्यते, अनभिहितकर्माद्याश्रयेष्वेकत्वादिषु द्वितीयादयो वेदितव्या इति ॥
कर्मणि द्वितीया ॥ २ ॥
द्वितीयादयः शब्दाः पूर्वाचार्यैः सुपां त्रिकेषु स्मर्यन्ते, तैरेवात्र व्यव-
हारः । कर्मणि कारके या संख्या तत्र द्वितीया विभक्तिर्भवति । कटं करोति ।
ग्रामं गच्छति ।
उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु ।
द्वितीया ऽऽम्रेडितान्तेषु ततो ऽन्यत्रापि दृश्यते ॥ * ॥
उभयतो ग्रामम् । सर्वतो ग्रामम् । धिग्देवदत्तम् । उपर्युपरि ग्रामम् ।
अध्यधि ग्रामम् । अधोऽधो ग्रामम् ॥ अभितःपरितःसमयानिकषाहाप्रतियोगेषु
च दृश्यते ॥ * ॥ अभितो ग्रामम् । परितो ग्रामम् । समया ग्रामम् । निकषा
ग्रामम् । हा देवदत्तम् । बुभुक्षितं न प्रति भाति किं चित् ॥
तृतीया च होश्छन्दसि ॥ ३ ॥
कर्मणीति वर्तते । द्वितीयायां प्राप्तायां तृतीया विधीयते, च्छन्दोऽर्था
च भवति । छन्दसि विषये जुहोतेः कर्मणि कारके तृतीया विभक्तिर्भवति
द्वितीया च । यवाग्वा ऽग्निहोत्रं जुहोति । यवागूमग्निहोत्रं जुहोति । छन्द-
सीति किम् । यवागूमग्निहोत्रं जुहोति ॥