सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 111, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 111

१०४ ॥ काशिका ॥ २ ॥ २ ॥
तत्र तेनेदमिति सरूपे ॥ २७ ॥
तत्रेति सप्तम्यन्तं गृह्यते । तेनेति तृतीयान्तम् । सरूपग्रहणं प्रत्येकम-
भिसंबद्ध्यते । तत्रेति सप्तम्यन्ते सरूपे पदे तेनेति च तृतीयान्ते इदमित्येतस्मि-
न्नर्थे समस्येते, बहुव्रीहिश्च समासो भवति । इतिकरणश्चेह विवक्षार्थो लौकि-
कमर्थमनुसारयति । ततो ग्रहणं प्रहरणं कर्मव्यतिहारो युद्धं च समासार्थ इति
सर्वमितिकरणाल्लभ्यते । यत्तत्रेति निर्दिष्टं ग्रहणं चेत्तद्भवति, यत्तेनेति निर्दिष्टं
प्रहरणं चेत्तद्भवति, यदिदमिति निर्दिष्टं युद्धं चेत्तद्भवति । केशेषुकेशेषु च
गृहीत्वा इदं युद्धं वृत्तं, केशाकेशि । कचाकचि । दण्डैश्च दण्डैश्च प्रहृत्य इदं
युद्धं वृत्तं, दण्डादण्डि । मुष्टामुष्टि । इच् कर्मव्यतिहारेऽति इच् समा-
सान्तः, स