काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 108, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ २ ॥ २ ॥ १०९
वज्रस्य भर्त्ता । ननु च भर्तृशब्दो ह्ययं याजकादिषु पठ्यते*। संबन्धिशब्दस्य
पतिपर्यायस्य तत्र ग्रहणम्† अकः खल्वपि । ओदनस्य भोजकः । सक्तूनां
पायकः ॥
नित्यं क्रीडाजीविकयोः ॥ १७ ॥
नेति निवृत्तं न तृजकौ । नित्यं समासो विधीयते । क्रीडायां जीवि-
कायां च नित्यं षष्ठी समस्यते, तत्पुरुषश्च समासो भवति । तृच् क्रीडाजी-
विकयो नास्तीत्यक एवोदाह्रियते । उद्दालकपुष्पभञ्जिका । वारणपुष्पप्रचा-
यिका । जीविकायाम् । दन्तलेखकः । नखलेखकः । क्रीडाजीविकयोरिति
किम् । ओदनस्य भोजकः ॥
कुगतिप्रादयः ॥ १८ ॥
नित्यमिति वर्तते । कुशब्दो ऽव्ययं गृह्यते, गत्यादिसाहचर्यात्, न
द्रव्यवचनः । कुगतिप्रादयः समर्थेन शब्दान्तरेण सह नित्यं समस्यन्ते, तत्पु-
रुषश्च समासो भवति । कुः पापार्थे । कुपुरुषः । गति । उररीकृतम् । यदूरीक-
रोति । प्रादयः । दुर्निन्दायाम् । दुष्पुरुषः । स्वती पूजायाम् । सुपुरुषः ।
अतिपुरुषः । आडीषदर्थे । आपिङ्गलः । प्रायिकं चैतदुपाधिवचनम्, अन्यत्रापि
हि समासो दृश्यते । कोष्णम् । कदुष्णम् । कवोष्णम् । दुष्कृतम् । अतिस्तुतम् ।
आबडम् । इति ॥ प्रादयो गताद्यर्थे प्रथमया ॥ * ॥ प्रगत आचार्यः, प्राचार्यः ।
प्रान्तेवासी ॥ अत्यादयः क्रान्ताद्यर्थे द्वितीयया ॥ * ॥ अतिक्रान्तः खट्वां,
अतिखट्वः । अतिमालः ॥ अवादयः कृष्टाद्यर्थे तृतीयया ॥ * ॥ अवकृष्टः कोकि-
लया, अवकोकिलः ॥ पर्यादयो ग्लानाद्यर्थे चतुर्थ्या ॥ * ॥ परिग्लानो ऽध्याय-
नाय, पर्यध्ययनः । अलं कुमार्यै, अलंकुमारिः ॥ निरादयः क्रान्ताद्यर्थे पञ्च-
म्या ॥ * ॥ निष्क्रान्तः कौशाम्ब्याः, निष्कौशाम्बिः । निर्वाराणसिः ॥ इवेन सह
समासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम् ॥ * ॥ वाससीइव ॥
प्रादिप्रसङ्गे कर्मप्रवचनीयानां प्रतिषेधो वक्तव्यः ॥ * ॥ वृक्षं प्रति विद्योतते
विद्युत् । साधुर्देवदत्तो मातरं प्रति ॥
उपपदमतिङ् ॥ १९ ॥
नित्यमिति वर्तते । उपपदमतिङन्तं समर्थेन शब्दान्तरेण सह समस्यते
नित्यं, तत्पुरुषश्च समासो भवति । कुम्भकारः । नगरकारः । अतिङिति
किम् । एधानाहारको व्रजति । ननु च सुप सुपेति वर्तते, तत्र कुतस्तिङन्तेन
- पठ्यते, इत्यस्याग्रे 'तत्र पाठसामर्थ्यात्समासेन भवितव्यम् । नैतदस्ति' इति क्व
चिदधिकम् ।
† ग्रहणमित्यस्याग्रे 'इदं तु क्लिष्टमक्लप्त' इति पाठः कुत्र चिदधिकः ।