सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 107, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 107

अर्थे । छात्राणां पञ्चमः । छात्राणां दशमः । गुण । बलाकायाः शौक्ल्यम् ।
काकस्य कार्ण्यम् । सुहितार्थास्तृप्त्यर्थाः । फलानां सुहितः । फलानां तृप्तः ।
सत् । ब्राह्मणस्य कुर्वन् । ब्राह्मणस्य कुर्वाणः । अव्यय । ब्राह्मणस्य कृत्वा ।
ब्राह्मणस्य हृत्वा । तव्य । ब्राह्मणस्य कर्त्तव्यम् । तव्यता सानुबन्धकेन समासो
भवत्येव । ब्राह्मणकर्त्तव्यम् । समानाधिकरण । शुक्रस्य माराविदस्य । राज्ञः
पाटलिपुत्रकस्य । पाणिनिः सूत्रकारस्य । किं च स्यात् । पूर्वनिपातस्यानियमः
स्यात् । अनन्तरायां तु प्राप्तौ प्रतिषिद्धायां विशेषणं विशेष्येणेति भवत्येष
समासः । पूर्वनिपातश्च तदा नियोगतो विशेषणस्यैव * ॥
क्तेन च पूजायाम् ॥ १२ ॥
मतिबुद्धिपूजार्थेभ्यश्चेति वक्ष्यति तस्येदं ग्रहणम् । पूजायहणमुपलक्षणा-
र्थम् । क्तो यः पूजायां विहितस्तेन षष्ठी न समस्यते । राज्ञां मतः । राज्ञां बुद्धः ।
राज्ञां पूजितः । पूजायामिति किम् । छात्रस्य हसितं, छात्रहसितम् ॥
अधिकरणवाचिना च ॥ १३ ॥
'क्तो ऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्य' इति वक्ष्यति, तस्येदं
ग्रहणम् । अधिकरणवाचिना क्तेन षष्ठी न समस्यते । इदमेषां यातम् । इद-
मेषां भुक्तम् ॥
कर्म्मणि च ॥ १४ ॥
क्तेनेति निवृत्तम् । कर्म्मग्रहणं । षष्ठीविशेषणम् । कर्म्मणि च या षष्ठी
सा न समस्यते । उभयप्राप्तौ कर्म्मणीति षष्ठ्या इदं ग्रहणम् । आश्चर्यो गवां
दोहो ऽगोपालकेन † । रोचते ओदनस्य भोजनं देवदत्तेन । साधु खलु पयसः
पानं देवदत्तेन । विचित्रा सूत्रस्य कृतिः पाणिनिना ॥
तृजकाभ्यां कर्त्तरि ॥ १५ ॥
कर्त्तृग्रहणं षष्ठीविशेषणम् । कर्त्तरि या षष्ठी सा तृचा ऽकेन च सह न
समस्यते । भवतः शायिका । भवत चासिका । भवतो ऽवगामिका । तृच्
कर्त्तर्येव विधीयते, तत्प्रयोगे कर्त्तरि षष्ठी नास्ति । तस्मात्तृज्ग्रहणमुत्तरार्थम् ।
कर्त्तरीति किम् । इक्षुभक्षिकां मे धारयसि ॥
कर्त्तरि च ॥ १६ ॥
कर्त्तरि च यौ तृजकौ ताभ्यां सह षष्ठी न समस्यते । सामर्थ्यादकस्य
विशेषणार्थे कर्तृग्रहणमितरत्र व्यभिचाराभावात् । अपां स्रष्टा । पुरां भेत्ता ।

  • अनन्तरायामित्यारभ्य विशेषणस्यैवेत्यन्तः पाठो बहुषु पुस्तकेषु न दृश्यते ।
    † आश्चर्यश्चितेन गोपालेनेति पाठान्तरम् ।