कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 91, कुल 172 में से
संदर्भ में पढ़ेंतृतीयं जवनिकान्तरम् ८१
तृतीयं जवनिकान्तरम्
( ततः प्रविशति राजा विदूषकश्च । )
राजा—( तामनुध्याय । )
दूरे किञ्चदु चंपवस्स कलिआ कज्जं हरिद्दाय किं
ओलोहाइ त्ति फंचणेण गणणा का णाम जण्येण वि ।
लावण्णस्स पडग्गदिंदुमहुरुच्छाअस्स तिस्सा पुरो
पग्भट्ठेहि वि केसरस्स कुसुमेक्केरेहि किं कारणं ॥ १ ॥
अवि अ,—
मरगअमंणिगुच्छा हारलट्ठि व्व तारा
भमरकवलिअन्ता मालईमालिअ व्व ।
रहसवलिअकंठं तीअ दिट्ठी चरित्ता
सवणपहणिविट्ठा माणसं मे पइट्ठा ॥ २ ॥
दूरे इति ।
दूरे कियतो चम्पकस्य कलिका कार्यं हरिद्रया किं
उत्तप्तेन च काञ्चनेन गणना का नाम जन्येनापि ।
लावण्यस्य मनोज्ञेन्दुमधुरच्छायस्य तस्याः पुरः
प्रस्भ्रष्टैरपि केसरस्य कुसुमोत्करैः किं कारणम् ॥
तस्या लावण्यस्येति सम्बन्धः । अत्राहैतूपमे । आक्षेपलक्षणन्तु दण्डिनः—'प्रति-
षेधपुरःकारोक्तिराक्षेपः ।' काव्यादर्शोऽपि ( २।१२० )—'प्रतिषेधोक्तिराक्षेपः'
इति ।
अपि च,—
मरकतमणिगुच्छा हारयष्टिरिव तारा
भ्रमरकवलितान्तः मालतीमालिकेव ।
रभसविलितकण्ठी तस्या दृष्टिंश्चरित्वा
श्रवणपथनिविष्टा मानसं मे प्रविष्टा ॥
तारेव भ्रमरगतेन कवलितान्तं यस्या इति वा । अत्रापि रूपकोत्प्रेक्षे ।
१ 'उत्तप्तेन च' इति टीकासम्मतः पाठः । २ 'वलितकण्ठं' इति टीकासम्मतः पाठः ।
क० म० ६