कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 29, कुल 172 में से
संदर्भ में पढ़ें१६ कर्पूरमञ्जरी
( अत्रैव । )
द्वितीयः—
जाअं कुंकुमपंकलीढमरढीगंडप्पहं चंपअं
थोआवट्टिअदुद्धमुद्धकुसुमा पंफुल्लिआ मल्लिआ ।
मूले सामलमग्गलग्गभसलं लक्खिज्जए किंसुअं
पिज्जंतं भसलेहि दोसु वि दिसाभाएसु लग्गेहि च ॥ १६ ॥
राजा—पिए विब्भमलेहे ! एक्को अहं वद्धावओ तुज्झ, का तुमं
पि वद्धाविआ मज्झ । किं उण दुवे वि अम्हे वद्धाविदा फंचणचंडरदण-
चंडेहिं बंदीहिं ? ता विब्भमप्पअट्टावअं तरट्टीणं, णट्टावअं मलयमारुदं-
दोलिदलदाणच्चणीणं, चारुप्पवंचिदपंचमं कलकंठिकंठेसुं, कंद-
लिदकंदप्पकोअंडदंडाखंडिदकंडचंडिमं, सिणिद्धबंधवं वसुंधरापुरंधीए
पसारिदपसप्पमाणेहिं अच्छीहिं महूसवं जधिच्छं पेक्खदु देवी ।
जादं इति ।
जातं कुङ्कुमपङ्कलीढमहाराष्ट्रीगण्डप्रभं चम्पकं
स्तोकावर्तितदुग्धमुग्धकुसुमा प्रोत्फुल्लिता मल्लिका ।
मूले श्यामलप्रमग्नभ्रमरं लक्ष्यते किंशुकं
पीयमानं मधुपाभ्यां द्वाभ्यामपि दिशाभागेषु लग्नाभ्यामिव ॥
मरढी इति देश्यादिः । थो इति 'स्तम्य थः' इति थः । स्तोकपदमत्यन्तसादृश्यार्थम् ।
मुग्धा सुन्दरी । 'मुग्धः सुन्दरमूढयोः' इत्यभिधानात् । 'महाराष्ट्री'पदं गौरत्वातिश-
यकथनार्थम्; स्वभावतस्तद्गुण्डानां गौरत्वात् । भसलो भ्रमरः । अत्र रूपकस्वभा-
वोक्त्युत्प्रेक्षाः । स्वभावोक्तिर्दण्डिनोक्ता (का. २।८)—'नानावस्थं पदार्थानां
रूपं साक्षाद्विवृण्वती । स्वभावोक्तिश्च जातिश्चेत्याद्या मार्गेऽनिर्णया ॥' इति ।
राजा—
प्रिये विभ्रमलेखे ! एकोऽहं वर्धापकस्तव, एका त्वं वर्धापिका मम । किं
पुनर्द्वावप्यावां वर्धापितौ काञ्चनचण्डरत्नचण्डाभ्यां वन्दिभ्याम् ? तद्विभ्रमप्रवर्तकं
तरुणीनाम्, नर्तकं मलयमारुतान्दोलितलता नर्तकीनाम्, चारुप्रपञ्चितपञ्चमं कलक-
ण्ठीकण्ठेषु, कन्दलितकन्दर्पकोदण्डदण्डखण्डितचण्डिमानम्, स्निग्धबान्धवं वसुं-
धरापुरन्ध्रयाः । प्रसारितप्रभाणे अक्षिणी महूत्सवं यथेच्छं प्रेक्षतां देवी ।