कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 161, कुल 172 में से
संदर्भ में पढ़ें३४ बालभारतम्
दुःशासनः—अये पाञ्चालि ! पञ्चानां कलत्रं भूत्वा किमपि व्रीडसे !
(साक्षेपम् ।)
हे द्रौपदि ! त्वमसि कात्र पतिव्रतानां
किं दृष्टपञ्चपुरुषा वनिता कलत्रम् ।
दुर्योधनस्य तदिमं भज वाममूरु-
मास्फालितं मुकुलिताङ्गुलिना करेण ॥ ४१ ॥
द्रौपदी—(तदनादृश्याञ्जलिं बद्ध्वा ।) हंहो सभासङ्गस्थिता गुरवो नरे-
न्द्राश्च ! द्रौपदी निर्णयं पृच्छति ।
(नेपथ्ये ।)
द्रौपदि ! विकर्णस्त्वामाह—'कीदृशो निर्णयः ?'
द्रौपदी—किमहं प्रथमं हारिता द्यूते आत्मा वा धर्मनन्दनेन ?
(नेपथ्ये ।)
प्रजावति ! तवायमभिप्रायः—
यद्यहं हारिता पूर्वं भवामि धृतकिंकरी ।
आत्मा वा हारितः पूर्वं तदा नासि च हारिता ॥ ४२ ॥
दुःशासनः—अरे रे अकर्णतिकर्ण ! सभामध्यमध्यासीने भुवनप-
तावार्यदुर्योधने किमित्थं प्रलपसि !
(प्रविश्य ।)
विकर्णः—(साक्षेपम् ।)
द्यूतं क्षत्रकुलव्रतं न स भवेद्धेतुः पणः स्वामिनः
संरम्भः किमकाण्ड एव भवता सद्धर्म यत्त्यज्यते ।
भो दुःशासन ! कः क्रमो द्रुपदजाकेशाम्बराकर्षणे
दुर्वृत्तं क्षमते न कस्यचिदियं भ्राता विकर्णस्तव ॥ ४३ ॥
दुर्योधनः—(सभ्रुकुटीबन्धम् ।) अरे रे धार्तराष्ट्रपटो ! वाचालोऽसि ।
विकर्णः—तदद्यप्रभृति,—