कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 125, कुल 172 में से
संदर्भ में पढ़ेंचतुर्थं जवनिकान्तरम् ११९
रयणमई अंजणसलाआ। जहा अ एसा आरण्णकुसुमणिप्फण्णा
मधुलच्छी। किं च,—
भुवणजयपडाआ रूअरेहा इमीए
जह तह णअणाणं गोअरं जस्स जादि।
घसइ मअरकेऊ तस्स चित्ते विचित्ते
वलइअधणुदंडो पुंखिदेहिं सरेहिं ॥ १९ ॥
विदूषकः—(जनान्तिकम्।) सच्चं कदं तए आहाणअं। तडं गदाए
वि णावाए ण विस्ससीअदि। ता तुण्हीओ चिट्ठ।
राज्ञी—(कुरङ्गिकां प्रति।) तुमं महाराअस्स विआहणेवच्छं कुरु।
सारंगिआ वि घणसारमंजरीए करेदु।
(इत्युभे उभयोर्विवाहनेपथ्यकरणं नाटयतः।)
भैरवानन्दः—उवज्झाओ हक्कारीअदु।
दिवससंचारिणी पूर्णिमाचन्द्रचन्द्रिका, अपि च प्रगुणगुणमाणिक्यमञ्जूषा। रत्न-
मय्यञ्जनशलाका तथा चैषा रक्तकुसुमनिष्पन्ना मधुलक्ष्मीः।
किं च,—
भुवनजयपताका रूपरेखाऽस्या
यथा तथा नयनयोर्गोचरं यस्य याति।
घसति मकरकेतुस्तस्य चित्ते विचित्रे
वलयितधनुर्दण्डः पुङ्खितैः शरैः ॥
विदूषकः—
सत्यं कृतं त्वयाभाणकम्। तटं गताया अपि नौकाया न विश्वसितव्यम्।
स तूष्णीं तिष्ठ।
राज्ञी—
त्वं महाराजस्य नेपथ्यं कुरु। सारङ्गिका घनसारमञ्जर्याः करोतु।
भैरवानन्दः—
उपाध्याय आकार्यताम्।
1 अस्थाने 'भैरवानन्दः-वच्छे! पत्तं विवाहमङ्गलमुहुत्तं। ता महाराजभस्ममज्जदु
तए अचोविद्दप्पडिवण्णं' इति वाक्यमधिकं दृश्यते।