सामग्री पर जाएँ
सर्वकोश
करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)

करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)

Karanakutuhalam of Bhaskaracharya with Commentary

भास्कराचार्य द्वितीय (टीकाकार: पं. रामचन्द्र पाण्डेय) द्वारा

DevanagariHindipublished155 पृष्ठ

पृष्ठ 103, कुल 155 में से

संदर्भ में पढ़ें
पृष्ठ 103

(१०२) करणकुतूहलम् ।
शिनः १३६ खत्रीन्दवो १३० लिप्तिकाः ।
खेटात्पातयुतात्तथा ज्ञसितयोः शीघ्रोच्चतो दो-
र्ज्यका क्षेपघ्नी चलकर्णहृत्त्रिहृता स्यादङ्गुलाद्यः
शरः ॥ १० ॥
भौमस्य विक्षेपः शरः कलात्मकदशोत्तरशतम् ११०
एवं बुधस्य १५२ गुरोः ७६ भृगोः १३६ शनेः १३० अथ
शरसाधनम् । खेटादिति । स्फुटग्रहः स्वीयस्फुटपातेन युक्तः
कार्यः बुधशुक्रयोस्तु स्वशीघ्रोच्चं स्वीयस्फुटपातेन
युतं कार्यं ततः सपातस्य ग्रहस्य भुजज्या स्वस्वशरेण गुण्या
स्वस्वशीघ्रकर्णेन भक्ता लब्धं कलात्मकं त्रिभिर्भक्तमङ्गुलात्मकं
शरो भवति स च सपातग्रहदिक्। यथा स्पष्टो बुधः १।७।२७।
६ गतिः १०३।२८ मन्दफलं धनम् ०।१५।७ शीघ्रोच्चम्
३।४।५७।१६ शीघ्रकेन्द्रम् २।३।२८।४३ गतिः १८०।२४
कर्णः १४५।१५ अथ पातः ११।९।०।० मन्दफलेन धन-
रूपेण ०।१५।७ युतो जातः स्पष्टः पातः ११।९।१५।७
शीघ्रोच्चेन ३।४।५७।१६ युतस्य २।१४।१२।२३ भुजज्या
११५६ शरेण १५२ गुणिता १७५७१२ कर्णेन
१४५।१४ भक्ता लब्धं कलादिशरः १२०।२७ सपातशी-
घ्रोच्चमुत्तरगोले तेनोत्तरस्त्रिभक्तोऽङ्गुलादिः ४०।९ शरः ॥१०॥
अपायनाक्षजकर्मद्वयमपि लाघवार्थमेकयत्नेन
शार्दूलविक्रीडितद्वयेनाह—
प्राक्पश्चात्त्रिभहीनयुक्तखचरकान्त्यक्षतोऽंशा नताः