सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कामकलाविलास (पुण्यानन्दनाथ - श्रीविद्या तत्त्व-विमर्श एवं चिद्वल्ली टीका सहित)

Kamakalavilasa of Punyanandanatha with Chidvalli Commentary

पुण्यानन्दनाथ द्वारा

DevanagariHindipublished56 पृष्ठ

श्रीमत्पुण्यानन्दाचार्यविरचितः ४९
इत उत्तरं गुरुक्रमो गदितः इत्यन्तेन श्लोकपञ्चकेन परम-
शिवान्तगुरुमन्त्रं शिष्यानुजिघृक्षया प्रतिपादयितु
परमानन्दानुभवः
परमगुरुनिर्विशेषबिन्दात्मा ।
स पुनः क्रमेणाभिन्नः
कामेशत्वं ययौ चिद्विमर्शरूपम्॥५०॥
परमः सर्वोत्कृष्टः, आनन्दः परिपूर्णांहंभावरूपोऽनुभवः
ज्ञानं यस्य, परमगुरुरित्यादि – परमगुरुरादिनाथः परमशिवः,
तस्मात् आदिनाथात् निर्विशेषः अभिन्नो, बिन्दुः पूर्वोक्तका-
मकलारूपः स आत्मा स्वरूपं यस्य, ............................................
..........................................................................................
..........................................................................................
आसीनः श्रीपीठे
कृतयुगकाले गुरुः शिवो विद्याम् ।
तस्यै ददौ स्वशक्त्यै
कामेश्वर्यै विमर्शरूपिण्यै ॥ ५१ ॥
4

५० कामकलाविलासः
सापीशा मित्रेश-
मुख्यान्स्वांशाञ्ज्येष्ठमध्यमालाख्यान् ।
चित्प्राणविषयरूपां-
स्त्रेतादियुगादिकारणत्रिगुरून् ॥ ५२ ॥
———
बीजत्रितयाधिपतीन्
परीक्ष्य विद्यां प्रकाशयामास ।
एतैरौघत्रितयम्
अनुग्रहीतुं गुरुक्रमो गदितः ॥ ५३ ॥
———
उदितः पुण्यानन्दा-
दिति कामकलाङ्गनाविलासोऽयम् ।
परमशिवभुजङ्गपाशा-
कर्षितचित्ताय कल्पते नित्यम् ॥ ५४ ॥
———
चित्तान्तरङ्गचपल-
तृष्णासलिलप्रपञ्चवाराशेः ।

श्रीमत्पुण्यानन्दाचार्यविरचितः ५१
यदनुग्रहेण तीर्ण-
स्तस्मै श्रीनाथनाविकाय नमः ॥ ५५ ॥
इति श्रीपुण्यानन्दयतिविरचितः कामकलाविलासः समाप्तः ॥
सद्विद्यानां संश्रये ग्रन्थविद्वद्
व्यूहे ह्रासं कालवृत्त्योपयाते ।
तत्तत्सद्धर्मोद्दिधीर्षैकतान-
सत्प्रेक्षौजःशालिना कर्मवृत्त्यै ॥ १ ॥
श्रीमत्कश्मीराधिराजेन मुख्यै-
र्धर्मोद्युक्तैर्मन्त्रिभिः स्वैर्विवेच्य ।
प्रत्यष्ठापि ज्ञानविज्ञानगर्भ-
ग्रन्थोद्धृत्यै मुख्यकार्यालयो यः ॥ २ ॥

५२ कामकलाविलासः
तत्राजीवं निर्विशद्भिर्मुकुन्द-
रामाध्यक्षत्वाश्रितैः सद्भिरेषः ।
पूर्त्या शुद्ध्य व्याख्याया संस्कृतः स्तात्-
पूर्णो ग्रन्थः श्रेयसे सज्जनानाम् ॥ ३ ॥
॥ तिलकम् ॥
श्रीशिवार्पणमस्तु ॥
शुभमस्तु साधकपाठकश्रोतॄणाम् ॥