कामकलाविलास (पुण्यानन्दनाथ - श्रीविद्या तत्त्व-विमर्श एवं चिद्वल्ली टीका सहित)

कामकलाविलास (पुण्यानन्दनाथ - श्रीविद्या तत्त्व-विमर्श एवं चिद्वल्ली टीका सहित)
Kamakalavilasa of Punyanandanatha with Chidvalli Commentary
पुण्यानन्दनाथ द्वारा
DevanagariHindipublished56 पृष्ठ
पृष्ठ 52, कुल 56 में से
संदर्भ में पढ़ेंपृष्ठ 52
४८ कामकालाविलासः
अस्यास्त्वगादिसप्तक-
माकारश्चैवमष्टकं स्पष्टम् ।
ब्राह्म्यादिमातृरूपं
मध्यमभूबिम्बमेतदध्यास्ते ॥ ४८ ॥
अस्या देव्याः, त्वगादिसप्तकं – त्वगादिसप्तधातवः, आकारः
स्वरूपं च, एवं-रूपमष्टकं – ब्राह्म्यादिमातृरूपं – ब्राह्म्याद्यष्टश-
क्तिस्वरूपं दधत् , मध्यमचतुरश्रे निवसति इत्यर्थः ॥ ४८ ॥
अणिमादिभूतयोऽस्याः
स्वीकृतकमनीयकामिनीरूपाः ।
विद्यान्तरगुणभावेन
फलभूता भूनिकेतनगाः ॥ ४९ ॥
अस्याः परमेश्वर्याः, अणिमाद्यष्टशक्तयः, विद्यान्तराणां
हठयोगादीनां स्वीकृतानि कमनीयानि मनोहराणि कामिनी-
रूपाणि याभिस्ताः एवं-भूताः । गुणभावेन उपसर्जनीभावेन,
भूनिकेतनगाः – सर्वान्तचतुरश्रे तिष्ठन्ति इत्यर्थः ॥ ४९ ॥