कामकलाविलास (पुण्यानन्दनाथ - श्रीविद्या तत्त्व-विमर्श एवं चिद्वल्ली टीका सहित)
Kamakalavilasa of Punyanandanatha with Chidvalli Commentary
पुण्यानन्दनाथ द्वारा
पृष्ठ 42, कुल 56 में से
संदर्भ में पढ़ें३८ कामकलाविलासः
क्र Towक्रमणं पदविक्षेपः
क्रमोदयस्तेन कथ्यते द्वेधा ।
आवरणं गुरुपङ्क्ति-
द्वयमिदमम्वापदाम्बुजप्रसरम् ॥ ३५ ॥
क्र Towक्रमणं पदक्रमः, स च द्विविधः – पदविक्षेपरूपः क्रमोदय-
रूपश्च, तत्र पदविक्षेपो नाम सुन्दर्यश्रानन्तकोटिकिरणात्मका-
नन्तशक्तिजननसामर्थ्यं, क्रमोदयो नाम दिव्य-सिद्ध-मानवौ-
घरूपानन्तप्रकाशात्मकश्रीगुरुमण्डलात्मकतया प्रसरणम् ।
एतद्द्वन्द्वचक्रद्वयं विवृणोति – आवरणमिति, आवरणचक्रस्थित-
शक्तिनिकुरुम्बं 'मञ्चाः क्रोशन्ति' इतिवत् । गुरुपङ्क्तिः –
गुरुमण्डलम्, इदं द्वयम्, अम्वापादाम्बुजप्रसरम् – अम्वाया-
स्त्रिपुरायाः पादाम्बुजस्य श्रीपादयुगस्य प्रसरः प्रसरणं विजृ-
म्भणम् इति यावत् ॥ ३५ ॥
तत्प्रसारसरणीं क्रमशॊ विवृणोति
सेयं परा महेशी
चक्राकारेण परिणमेत यदा ।