सामग्री पर जाएँ
सर्वकोश
कालिका पुराण (सटीक हिन्दी अनुवाद सहित)

कालिका पुराण (सटीक हिन्दी अनुवाद सहित)

Kalika Purana with Hindi Translation

महर्षि व्यास द्वारा

स्रोत: कल्याण मन्दिर प्रयाग · कल्याण मन्दिर प्रयाग (उद्गम)

DevanagariSanskritpublished442 पृष्ठ

पृष्ठ 433, कुल 442 में से

संदर्भ में पढ़ें
पृष्ठ 433

ॐ श्रीकालिका पुराण ॐ ४३५
नित्यं लोभप्रलोभैः कृतवशमतिः कामुकस्त्वाम्प्रयाचे ।
क्षन्तव्यो मेऽपराधः प्रकटितवदने कामरूपे कराले ॥
रागद्वेषैः प्रमत्तः कलुषयुततनुः कामनाभोगलुब्धः ।
कार्याऽकार्य्याऽविचारी कुलमतिरहितः कौलसङ्घैर्विहीनः ॥
क्व ध्यानं ते क्व चार्च्चा क्व च मनुजपनैव किञ्चित् कृतोऽहम् ।
क्षन्तव्यो मेऽपराधः प्रकटितवदने कामरूपे कराले ॥
रोगी दुःखी दरिद्रः परवशकृपणः पांशुलः पापचेताः ।
निद्रालस्यप्रसक्तः सुजठरभरणे व्याकुलः कल्पितात्मा ॥
किं ते पूजाविधानं त्वयि क्वच नुमतिः क्वानुरागः क्व चास्था ।
क्षन्तव्यो मेऽपराधः प्रकटितवदने कामरूपे कराले ॥
मिथ्या व्यामोहरागैः परिवृतमनसः क्लेशसङ्गान्त्वितस्य ।
क्षुन्निद्रौघान्वितस्य स्मरणविरहिणः पापकर्मप्रवृत्तेः ॥
दारिद्र्यस्य क्व धर्मः क्व च जननि रुचिः क्व स्थितित्साधुसङ्गैः ।
क्षन्तव्यो मेऽपराधः प्रकटितवदने कामरूपे कराले ॥
मातस्तातस्य देहाज्जनननिजठरगः संस्थितस्त्वद्दृशेऽहम् ।
त्वं हन्त्री कारयित्री करणगुणमयी कर्महेतुस्वरूपा ॥
त्वम्बुद्धिश्चित्तसंस्थाप्यहमतिभवती सर्व्वमेतत्क्षमस्व ।
क्षन्तव्यो मेऽपराधः प्रकटितवदने कामरूपे कराले ॥
त्वम्भूमिस्त्वं जलञ्च त्वमसि हुतवहस्त्वं जगद्वायुरूपा ।
त्वं चाकाशम्मनश्च प्रकृतिरसि महत्पूर्व्विका पूर्व्वपूर्व्वा ॥
आत्मा त्वं चासि मातः ! परमसि भवती त्वत्परं नैव किञ्चित् ।
क्षन्तव्यो मेऽपराधः प्रकटितवदने कामरूपे कराले ॥
त्वं काली त्वं च तारा त्वमसि गिरिसुता सुन्दरी भैरवी त्वं ।
त्वं दुर्गा छिन्नमस्ता त्वमसि च भुवना त्वं हि लक्ष्मीः शिवा त्वम् ॥
धूमा मातङ्गिनी त्वं त्वमसि च बगला मङ्गलादिस्तवाख्या ।
क्षन्तव्यो मेऽपराधः प्रकटितवदने कामरूपे कराले ॥
स्तोत्रेणानेन देवीम्परिणमति जनो यः सदा भक्तियुक्तो ।
दुष्कृत्यादुर्ग्संऽम्परितरति शतं विघ्नता नाशमेति ॥
नाधिव्यांधिः कदाचिद्भवति यदि पुनस्स्र्व्वदा सापराधः ।
सर्वं तत्कामरूपे त्रिभुवनजननि क्षामये पुत्रबुद्ध्या ॥
ज्ञाता वक्ता कवीशो भवति धनपतिर्दानशीलो दयात्मा ।
निःपापी निष्कलङ्की कुलपतिकुशलः सत्यवाग्धार्मिकश्च ॥
नित्यानन्दो दयाद्यः पशुगणविमुखस्सत्यथाचारशीलः ।
संसाराब्धि सुखेन प्रतरति गिरिजापादयुग्मावलम्बात् ॥
॥ इति श्रीकाली-अपराधक्षमापन-स्तोत्रम् ॥