कबीरपंथी शब्दावली
Kabirpanthi Shabdavali
स्वामी श्री युगलानन्द विहारी द्वारा
स्रोत: Kabirpanthi Shabdavali - Yugalanand Vihari · श्री युगलानन्द विहारी (उद्गम)
पृष्ठ 154, कुल 968 में से
संदर्भ में पढ़ें(१४८)
कवीरपंथी—
वीराय भो ॥२॥ जैनः प्राह जयं न जीवमितरं पुण्यञ्च पापं तथा
द्रव्यं पुद्गलकञ्च कालमितियत्स्वातन्त्र्यता कर्मणि ॥ तद्युक्त्या-
नुभवैः परीक्षयति यः किं तन्त्रता कर्मणस्तस्मै सदगुरुरूपिणे
कुरु नमः श्रीमत्कवीराय भो ॥३॥ गोरक्षप्रमुखा वदन्ति वपुषः
श्वासस्य संशोधनैरात्मानन्दकरोऽत्र भैरवने सिद्धिः ससुज्जूम्रते ॥
तच्चेदं नटवत्परीक्षयति यः कृत्या किमिष्टायुषा तस्मै सदगुरुरूपिणे
कुरु नमः श्रीमत्कवीराय भो ॥ ४ ॥
शून्याज्जातमशून्यमेतदसुतः शून्यं भविष्यज्जगद्वाह्याभ्यन्तरभेद-
तः परिणता चिद्वासना भासते ॥ इत्थं बौद्धरुतं परीक्षयति यः
शून्यस्य साक्षी सकस्तस्मै सदगुरुः ॥ ५ ॥ योगी प्राह यमा-
दिभिर्बहुविधैः स्याच्चेतसो निग्रहस्तेनात्मा प्रभुतासुपैति मणितो
लोहः सुवर्णायते ॥ इत्युक्तं किमुतं परीक्षयति यो जातः क्वचि-
ताभियात्तस्मै स० ॥ ६ ॥ स्वञ्चान्धे इव कर्तुं भोक्तृकलिते नित्ये
अजाजे रते मृत्युः कुम्भवदेव सा परिणता सुक्तस्तया यः करी ॥
इत्युक्तं कियते परीक्षयति यः का भोक्तृकर्त्रोर्भिदा तस्मै स० ॥ ७ ॥
मीमांसा सु मिते श्रुतिर्विधिगतासूयाकृतिः स्यान्मुदे आत्मज्ञान
गुणेश्वरे च परमं देवाश्च मन्त्रात्मकाः ॥ इत्युक्तं प्रकटं परीक्षयति
यः कर्त्ता कथञ्चिक्रियास्तस्मै सदगुरुरूपिणे कुरु नमः श्रीमत्क-
वीराय भो ॥ ८ ॥ आत्मानौ च विभू स्वतन्त्रपरतन्त्राभ्यां भिदा
संशयाद्भूम्यादेः परमाणवः कृतनयाः कार्यस्य चारंभकाः ॥
काणादेः कथितं परीक्षयति यः कालञ्च किं वा विभोस्तस्मै
सदगुरुरूपिणे कुरु नमः श्रीमत्कवीराय भो ॥ ९ ॥
प्रामाण्यादिवसुद्वयार्थविदुषोऽमी संजगौ गौतमं दुःखं ध्वंसकृतं
दृशादृशमथो ज्ञानोपमर्दादिति ॥ तत्किं तथ्यमिदं परीक्षयति यो
दुःखात्यये किं सुखं तस्मै स० ॥ १० ॥ सत्यं ब्रह्म न चान्यदस्ति