सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 9, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 9

॥ श्रीः ॥
भूमिका
स जयति तेजोरारिस्त्रयीमयो जगत्तस्थुषामात्मा ॥
भानुः सकलं ज्योतिर्विभासयन्नात्मसद्भासा ॥ १ ॥
सुविदितमेवैतत् तत्रभवतां निखिलनिगमागमविधूतचेतसां विपश्चिदां यदिह जगति
जनिमतां सर्वतः श्रेयोमार्गप्रदर्शको वेद एव । नात्र कश्चिदपि विषयोऽनुपलभ्यो याथातथ्ये-
नान्त्रेष्यतां सताम् । इयमेव शासनपद्धतिर्जगन्नियन्तुः सवितुरीश्वरस्यैतदर्थमेव सर्वतः प्रथमं
मीनावतारोऽप्यङ्गीकृतो भगवतेति तज्ज्ञानप्रवर्त्तकानि तत्षडङ्गभूतानि शिक्षा-कल्प-शब्द-
ज्योतिष-निरुक्त-च्छन्दःशास्त्राणि प्रचक्ष्यन्ते । तथा च भास्कराचार्यः-
शब्दशास्त्रं मुखं ज्योतिषं चक्षुषी श्रोत्रमुक्तं निरुक्तं च कल्पः करौ ।
या तु शिक्षाऽस्य वेदस्य सा नासिका पादपद्मद्वयं छन्द आद्यैर्बुधैः ॥
तेषु षडङ्गेषु तावज्ज्योतिःशास्त्रं दिग्देशकालब्यञ्जकत्वेन यज्ञ-तपो-दान-व्रतोपवासा-
दीनामादिबीजमिति सकलशास्त्रापेक्षयाऽस्याध्ययनाध्यापनमतीवावश्यकम् । यतो हि सर्वे-
षामेव वेदवेदाङ्गोपनिषद्दर्शनपुराणेतिहासादीनामयमेवैकः सिद्धान्तो यत्-"सर्वैरेव नरजातै-
र्यज्ञतपोदानव्रतादिनियमैरीश्वर उपासनीय इति", परञ्च काले कृतमेव यत्किञ्चिदपि कर्म
साफल्यमकाले कृतमपि कर्म वैफल्यं परिणमतीति तावत् कालात्मकस्यास्य शास्त्रस्य प्रति-
पदं प्रयोजनं भवत्येव । एष किल सामान्य नियमो यद्यः कोऽपि स्वविषयस्यैव बाहुल्येन
पोषणं कुरुते । परञ्च निष्पक्षपातधियाऽपीदमेव सिद्धं यन्नैतद्विना लोकानां लौकिकं वैदिकं च
किमपि कर्म साफल्यमुपयातीत्युक्तमपि नारदेन -
वेदस्य निर्मलं चक्षुर्ज्योतिःशास्त्रमकल्मषम् ।
विनैतदखिलं कर्म श्रौतं स्मार्तं न सिद्ध्यति ॥ इति ॥
अथ 'न जातु ज्योतिश्चक्रं तिरन्तरा द्रष्टुं ज्ञातुं च शक्यत' इति तेजोमयो भगवान्भव्यो
मुक्तिमार्गो रविरीश्वरः ('सूर्य आत्मा जगतस्तस्थुषश्चे'ति श्रुतेः, 'वर्त्मापुनर्जन्मनाम्' इति
वराहवचनाच्च) तदंशका ज्योतिष्मन्तो ग्रहा वै देवाश्च ('ग्रहास्ते देवतांशकाः' इति भट्टोक्तेः)
चक्षुरूपज्योतिश्शास्त्रं विना न केनापि शास्त्रेण ज्ञातुं शक्यन्त इति कथने न भवति काचि-
दपि वाच्यतेति ।
'दैवाधीनं जगत् सर्वम्' इति तथा 'ग्रहास्ते देवतांशकाः' इति वचनात् सकलं जगद्
ग्रहाधीनमेव । वस्तुतो रविकिरणसंयोगवशादेव सकलं जगज्जातं (चरमचरञ्च) जीवनं स्थेमं
च वहतीति प्रत्यहं त्रिकालं...... पश्येम शरदः शतम्, जीवेम शरदः शतम्, शृणुयाम शरदः
शतम्, प्रब्रवाम शरदः शतम्, अदीनाः स्याम शरदः शतं भूयश्च शरदः शता'दित्यादि-ऋग्भी
रविरुपास्यते लोकैः । तेषां गगन-गगनेचर-भू-भूधर-त्रिदश-दानव-मानवानां स्थिति-
मिति-गतिज्ञानं ज्योतिषशास्त्रमन्तरा न केवलं दुर्घटमुतासम्भवमपीति । यथा नहि नेत्रं
विना कश्चिदपि जनो निरापदं स्वीयमभिलषितं पदं गन्तुं पारयेत्तथा ज्योतिषशास्त्रं ( नेत्रं )
विना जगतः श्रेयोमार्गः कथमपि न सम्भवतीति ।