सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 10, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 10

२ भूमिका
ईदृग्विधं शास्त्रं नान्यशास्त्रवत्सन्देहास्पदम्प्रत्यक्षञ्च, उत समन्ताद्युक्तियुक्तं प्रत्यक्षञ्च ।
नान्यत् किमपि शास्त्रं ज्योतिःशास्त्रवत्-इदमेव तत्, इदानीमेव तत्, 'अत्रैव तत्, एताव-
देव तत्, इत्थमेव तदित्यादि प्रकटयितुं पारयेदित्युक्तमपि तथा-
अप्रत्यक्षाणि शास्त्राणि विवादस्तेषु केवलम् ।
प्रत्यक्षं ज्योतिषं शास्त्रं चन्द्राकौँ यत्र साक्षिणौ ॥ इति ॥
अथेदं शास्त्रं हि-
सूर्यः पितामहो व्यासो वसिष्ठोऽत्रिः पराशरः ।
कश्यपो नारदो गर्गो मरीचिर्मनुरङ्गिराः ॥
लोमशः पौलिशश्चैव च्यवनो यवनो भृगुः ।
शौनकोऽष्टादशैवैते ज्योतिःशास्त्रप्रवर्त्तकाः ॥
इति कश्यपवचनादष्टादशपुराणानुकल्पमष्टादशर्षिप्रवरप्रवर्त्तितमत आर्षं तेन, तथा-
दिव्यं चक्षुर्ग्रहर्क्षाणां दर्श