सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 85, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 85

ग्रहनामस्वरूपगुणभेदाध्यायः ॥२॥ ५९
बालाद्यवस्थाचक्रम् ।
| १।३।५।७।९।११ राशिषु | १-६ | ६-१२ | १२-१८ | १८-२४ | २४-३० | अंशाः |
| अवस्थानामानि | बालः | कुमारः | युवा | वृद्धः | मरणम् | अवस्थाः |
| २।४।६।८।१०।१२ राशिषु | २४-३० | १८-२४ | १२-१८ | ६-१२ | १-६ | अंशाः |
अथ जाग्रदाद्यवस्थाः ।
उच्चांशे स्वनवांशे च जागरुकं वदन्ति हि ।
सुहृन्नवांशकं स्वप्नं सुप्तं नाचारिशांशकम् ॥ ८५ ॥
इदानीं ग्रहाणां जाग्रदाद्यवस्था उच्यन्ते । उच्चांशं स्वनवांशं च जागरुकं वदन्ति ।
ग्रहो यद्युच्चांशे स्वकीय नवांशे च भवेत्तदा तस्य 'जाग्रत्' अवस्था भवति । सुहृन्नवांशकं =
मित्रनवांशकं स्वप्नं = स्वप्नावस्थां कथयति । नीचारिशांशकं = नीचांशं शत्रुनवांशं च सुप्तं
वदन्ति । नीचे शत्रुनवांशे च ग्रहो यदि स्यात्तदा सुप्तो भवतीति ॥ ८५ ॥
उच्चांशमें तथा अपने नवांशमें ग्रह जागृक् होते हैं ऐसा विद्वान लोग कहते हैं। मित्रके
नवांशमें रहनेवाले ग्रह स्वप्न अवस्थाके होते हैं। नीच और शत्रुके नवांशमें ग्रह सुप्त कह-
लाते हैं ॥ ८५ ॥
अथ ग्रहाणां फलदानकालः ।
शीर्षोदयगतः खेटः पाकादौ फलदो भवेत् ।
पृष्ठोदयस्थः पाकान्ते सदा चोभयराशिगः ॥ ८६ ॥
इदानीं ग्रहाणां राशिपरत्वेन फलदानकाल उच्यते । शीर्षोदयराशिषु (अ.१, श्लो० १४)
गतः खेटः पाकादौ = स्वदशाया आरम्भे फलदो भवेत् । पृष्ठोदयराशिस्थो ग्रहः पाकान्ते=
स्वदशाया अन्ते फलदः । तथा चोभयराशिगः = मीनगतो ग्रहः सदा = सर्वस्मिन्काले फलदो
भवति । तथोक्तं बृहज्जातके-
“पृष्ठोभयकोदयर्क्षगस्त्वन्तेऽन्तः प्रथमेषु पाकदाः” इति ।
अत्रास्मिन्वचने उभयोदयगे भेदो दृश्यते । तयैवाह गार्गिरपि-
“आद्यन्तमध्यफलदः शिरःपृष्ठोभयोदये । दशाप्रवेशसमये तिष्ठन् वाच्यो दशापतिः” इति ॥
शीर्षोदय राशिमें प्राप्त ग्रह दशाके आदिमें फल देते हैं । पृष्ठोदय राशिमें प्राप्त ग्रह दशा
के अन्तमें फल देते हैं । उभयराशिवाले सदा फल देते हैं ॥ ८६ ॥
समस्तहोराफलसारसान्द्रविराजिते जातकपारिजाते ।
ग्रहक्रियारूपगुणप्रभेदः सङ्कीर्तितः खेटकृपाकटाक्षात् ॥ ८७ ॥
इति नवग्रहकृपया वैद्यनाथविरचिते जातकपारिजाते
ग्रहनामस्वरूपगुणभेदाध्यायः ॥ २ ॥
❦❧
अनेनाध्यायमुपसंहरति । स्पष्टार्थः श्लोकः ॥ ८७ ॥
पारिजाते सुधा टीका कपिलेश्वररचिता । द्वितीये ग्रहशीलेऽस्मिन्नध्याये पूर्णतां गता ॥ २ ॥
सम्पूर्ण होराफलके सार-तत्त्वसे विराजित जातकपारिजातमें ग्रहोंकी कृपादृष्टिसे ग्रह
क्रिया-रूप-गुणके भेदोंसे युत ग्रहनामस्वरूपगुण अध्यायका मैं वर्णन किया ॥ ८७ ॥
इति द्वितीयाध्याये 'विमला' हिन्दीटीका समाप्ता ॥