जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
DevanagariHindipublished588 पृष्ठ
पृष्ठ 82, कुल 588 में से
संदर्भ में पढ़ेंपृष्ठ 82
५६ सटीकजातकपारिजाते-
अथ दोषापहरणम् ।
राहुदोषम्बुधो हन्यादुभयोस्तु शनैश्चरः ।
त्रयाणां भूमिजो हन्ति चतुर्णां दानवार्चितः ॥ ७३ ॥
पञ्चानां देवमन्त्री च षण्णां दोषं तु चन्द्रमाः ।
सप्तदोषं रविर्हन्याद्विशेषादुत्तरायणे ॥ ७४ ॥
इदानीं दोषापहर्त्तार उच्यन्ते । राहुदोषं = राहोर्दुःस्थानादिजनितदोषं बुधो हन्यान्ना-
शयतीति । कस्यचिज्जन्मकाले राहुश्चेद्दशुभस्तत्र यदि बुधो वलीयान् भवति तदाऽसौ
राहुकृतं दोषं प्रशमयेदित्यर्थः । एवमेव सर्वत्रोह्यम् । उभयोस्तु = बुधराहोर्दोषं तु शनै-
श्चरो हन्यात् । त्रयाणां = राहु-बुध-शनीनां दोषं भूमिजः=मङ्गलो हन्यात् । चतुर्णां=
मङ्गल-बुध-शनि-राहूणां दोषं दानवार्चितः=शु