जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 69, कुल 588 में से
संदर्भ में पढ़ेंग्रहनामस्वरूपगुणभेदाध्यायः ॥ २ ॥ ४३
शालिनः स्युरिति । यथा-लग्ने बुधगुरू बलिनौ । चतुर्थे शुक्रचन्द्रौ । सप्तमे शनिः । दशमे
भौमसूर्यौ बलिनौ भवतः । तयोक्तं भगवता मिहिरेण—
“दिक्षु बुधाङ्गिरसौ रविभौमौ सूर्यसुतः सितशीतकरौ च” इति ।
एतद्वैपरीत्येन तत्सप्तमे ते ग्रहा निर्बला भवन्तीत्यप्यवधेयम् ॥ ३५ ॥
लग्न, चतुर्थ, सप्तम और दशम स्थानमें क्रमसे बुध और गुरु । शुक्र और चन्द्र ।
शनि । मङ्गल और सूर्य दिग्बलशाली हैं । अर्थात् लग्नमें बुध और वृहस्पति । सुखमें शुक्र
और चन्द्र । सप्तममें शनि । दशममें मङ्गल और सूर्य बली हैं ॥ ३५ ॥
दिग्बलचक्रम् । दिग्निर्बलचक्रम्
| दिग्बलचक्रम् | दिग्निर्बलचक्रम् |

| लग्न (१): लग्नम् बु० गु०
चतुर्थ (४): शु० चं०
सप्तम (७): श०
दशम (१०): सू० मं० | लग्न (१): लग्नम् श०
चतुर्थ (४): मं०
सप्तम (७): गु० बु०
दशम (१०): शु० चं० |
अथ कालबलम् ।
निशीन्दुमान्दावनिजाः परेऽहनि स्वकीयहोरासममासवासराः ।
सितादिपक्षद्वयगाः शुभाशुभा बुधः सदा कालजवीर्यशालिनः ॥ ३६ ॥
इदानीं ग्रहाणां कालबलमुच्यते । इन्दुमान्दावनिजाः = चन्द्रशनिमङ्गलाः, निशि=रात्रौ
बलिनो भवन्ति । परे = सूर्य-गुरु-शुक्राः, अहनि = दिने बलिनः । स्वकीयहोरासममासवा-
सराः = स्वकीया या होरा = कालहोरा, स्वीया समा = वर्षम्, स्वीयो यो मासः, स्वीयो
यो वासरः तेषु ते ग्रहा बलिनः । होरेशः स्वहोरायाम् । वर्षपतिः स्ववर्षे । मासपतिः स्व-
मासे । वारेशः स्ववारे बली भवतीत्यर्थः । शुभाशुभाः सितादिपक्षद्वयगाः = शुभाः शुक्लपक्षे,
अशुभाः = पापाः कृष्णपक्षे कालजवीर्यशालिनो भवन्ति । बुधः सदा = सर्वस्मिन्नेव काले
बली भवन्ति । तथोक्तं वराहेण बृहज्जातके—
“निशि शशिकुजसौराः सर्वदा ज्ञोऽह्नि चान्ये, बहुलसितगताः स्युः क्रूरसौम्याः क्रमेण ।
ब्ययनदिवसहोरामासपैः कालवीर्यम्” इति ॥ ३६ ॥
चन्द्रमा, शनि और मङ्गल रात्रिमें, शेष ( सू० बृ० शु० ) दिनमें बली हैं । बुध सदा
काल बली है । सभी ग्रह अपने २ कालहोरा, अपने २ वर्ष ( जिसमें जो वर्षेश हो )
अपने २ मास और अपने २ दिनमें बली होते हैं । शुक्लपक्षमें शुभग्रह शुभ और कृष्णपक्ष
में पापग्रह शुभ हैं ॥ ३६ ॥
अथ चेष्टाबलम् ।
जैत्रा वक्रसमागमोपगसितज्ञारामरेड्यासिताः,
दिव्याशायनगेन्दुतिग्मकिरणौ चेष्टाबलांशाधिकाः ॥ ३६½ ॥
इदानीं ग्रहाणां चेष्टाबलमुच्यते । जैत्राः = जेतारो प्रहयुद्धे प्राप्तविजयका इत्यर्थः ।