सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 552, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 552

दिस्थानरहिताश्च भवेयुस्तेषां दशायामशुभं फलमिति चिन्त्यम् । तथा चोक्तं फलदीपिकायाम्-
यद्भावगो गोचरतो विलग्नाद्दशेश्वरः स्वोच्चसुहृद्गृहस्थः ।
तद्भावपुष्टिं कुरुते तदानीं बलान्वितश्चेज्जननेऽपि तस्य ॥ १५ ॥
लग्नसे इष्टग्रहमें-स्वगृहमें, उच्चमें, मित्रगृहमें, स्थित दशापति शुभग्रह तथा मित्रसे
दृष्ट युत हो तो उसकी दशाकी भुक्तिमें शुभ हो । केन्द्र वा कोणमें हो तो अत्यन्त शुभ हो ।
पापग्रह तृतीय, षष्ठ, एकादशमें हों, उच्च, उपचयमें जो बलवान् हों उनकी दशामें शुभ
होता है ॥ १५ ॥
अन्योन्यमित्रग्रहयोर्दशायां भुक्तौ शुभं षड्बलशालिनोस्तु ।
शत्रुग्रहौ दुर्बलशालिनौ चेत् पाकापहारे तु तयोरनर्थः ॥ १६ ॥
अन्योन्यमिति । अन्योन्यं = परस्परम्, इष्टग्रहयोः = मित्रग्रहयोः, षड्बलशालिनोः =
स्वस्वषड्बलसहितयोः, दशायां, भुक्तौ=अन्तर्दशायां च शुभं फलं भवति । एतदुक्तं भवति ।
यस्य ग्रहस्य दशायां यदीयान्तर्दशा भवति तौ दशान्तर्दशाधिपती ग्रहावन्योन्यं मित्रत्वमुप-
गतौ स्वस्वषड्बलयुतौ च भवेतां तदा तद्दशान्तर्दशाकाले शुभं फलं वाच्यम् । अथ तौ चेत्
परस्परं शत्रुग्रहौ दुर्बलशालिनौ च भवेतां तदा तयोः पाकापहारे=दशान्तर्दशाकाले अनर्थः=
अशुभं फलं भवतीति ॥ १६ ॥
परस्पर मित्रकी दशा भुक्तिमें शुभ फल देते हैं। यदि दोनों परस्पर शत्रुग्रह हों तो
उनकी दशामें अनर्थ होता है ॥ १६ ॥
करोति यद्भावगतः स्वपाके तद्भावजन्यं त्वशुभं शुभं वा ।
शुभं शुभव्योमचरस्य दाये पापस्य दाये त्वशुभं वदन्ति ॥ १७ ॥
सौम्यन्वितग्रहदशाऽतिशुभप्रदा स्यात् पापन्वितस्य विफलं परिपाककाले ।
मिश्रग्रहेण सहितस्य दशापहारे मिश्रं फलं भवति मिश्रबलान्वितस्य ॥ १८ ॥
करोतीति । पाकपतिः ग्रहः (अन्तर्दशेशः ) दशापतेः सकाशात् यद्भावगतः स्यात्
तद्भावजन्यम् अशुभं शुभं वा फलं स्वपाके = स्वान्तर्दशाकाले करोति । तत्र शुभाशुभव्यव-
स्थामाह । शुभव्योमचरस्य पाके शुभं फलं तथा पापस्य दाये तु अशुभं फलं भवतीति
आर्या वदन्ति । तत्रापि शुभदशायां शुभान्तरे तद्भावजं फलं शुभतरमेवमशुभस्थ दशायां
पापान्तरेऽशुभतरमर्थादेव मिश्रे मिश्रं फलमिति । तथा फलदीपिकायाम्—
यद्भावगः पाकपतिर्दशेशात् तद्भावजातानि फलानि कुर्यात् ।
विपक्षरिष्फाष्टमभावगश्चेत् दुःखं विदध्यादितरत्र सौख्यम् ॥
सौम्यन्वितेति श्लोकः सरलार्थः एवेत्यलम् ॥ १७-१८ ॥
कोई ग्रह जिस भावमें प्राप्त हो उस भावजन्य अशुभ-शुभ फलको अपनी दशामें करता
है । शुभ ग्रहकी दशामें शुभ, पाप ग्रहकी दशामें अशुभ होना कहते हैं ॥ १७ ॥
शुभग्रहसे युक्त ग्रहकी दशा शुभ फल देती है । पापग्रह युक्त ग्रहकी दशा अशुभ फल
परिपाक कालमें देती है । मिश्रबल युत तथा मिश्र ग्रह युत ग्रहकी दशा प्राप्त होने पर
मिश्र फल होता है ॥ १८ ॥
यद्धातुखेटस्य दशापहारे तद्धातुवित्तायतिमाहुरार्याः ।
धातुक्षयं पापवियच्चरस्य पाकेऽभिवृद्धिं शुभदस्य धातोः ॥ १६ ॥
यदिति । यस्य धातोः 'मज्जा-स्नायु-वसेत्यायुक्तस्य' यः खेटः = ग्रहस्तस्य दशापहारे
तद्धातुवित्तायतिम् = तत्तद्ग्रहसम्बन्धिधातुभृतीनां परिपाकम् , आर्याः = मनीषिण आहुः ।
तत्र तद्धातुग्रहदशायां पापवियच्चरस्य, पाके = भुक्तौ ( अन्तर्दशायामिति यावत् ) धातुक्ष-
यम् , शुभस्य = शुभग्रहस्य पाके तु धातोरभिवृद्धिमाहुराया इति ॥ १९ ॥