सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 547, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 547

कालचक्रदशाध्यायः ॥१७॥ ५२१
अधुना अन्तर्दशाविधिरुच्यते-दशामिति । एकैकस्य ग्रहस्य राशेर्वा दशायां प्रत्ये-
कस्य ग्रहस्य राशेर्वा अवान्तर्दशा भवति, सैवान्तर्दशाशब्देनोच्यते । तस्यानयनप्रकारः ।
यस्य ग्रहस्य दशामध्ये यदीयान्तर्दशानयनमपेक्षितं भवेत्तयोर्ग्रहयोः ये स्वस्वदशामानं
तयोः गुणनं कार्यम् । एकस्य दशामन्यस्य दशाब्दैः सङ्गुण्येत । तद्गुणनफलं सर्वायुः-
संख्यया हरेत् = यद्राशिसम्बन्धिदशायामन्तर्दशा साध्यते तद्राशौ यत्पूर्णायुर्मानं तेन विभ-
जेदिति । लब्धं वर्षमासदिनादिका अन्तर्दशा ज्ञेया ।
उदाहरणम्—यथा कस्यचिज्जन्म मूलनक्षत्रस्य चतुर्थचरणे वर्त्तते, तदा तस्य सव्य-
चक्रे कर्कसम्बन्धिदशायां जन्मेति तत्र पूर्णायुर्मानं = ८६ वर्षाणि । तत्र यदि धनुर्गुरुदशायां
मकरशनेरन्तर्दशाऽपेक्ष्यते तदा धनुर्गुरुदशामानेना १० नेन मकरशनिदशा ४ गुणिता
जाता = ४०, एतत्सर्वायुःसंख्यया ८६ भक्तेति जातं गुरुदशायां शन्यन्तर्दशावर्षादि
०।५।१७।२६। एवं सर्वत्र विजानीयात् ।
अत्रोपपत्तिः—सर्वग्रहदशायोगमिते पूर्णायुषि ग्रहाणां पृथक् पृथक् दशामितिः पठिता।
अथैकैकस्य ग्रहस्य दशारूपे पूर्णायुषि प्रत्येकस्यावान्तर्दशा साध्यते । तदर्थमयमनुपातः-
यदि सर्वग्रहदशायोगमिते पूर्णायुषि साध्यस्य ग्रहस्यैतन्मिता दशा लभ्यते तदा प्रकृतग्रह-
दशारूपे पूर्णायुषि केति ? ( प्र. ग्र. द. × सा. ग्र. द. / पूर्णायुः = अन्तर्दशा ) लब्धं साध्यग्रहस्य
प्रकृतग्रहदशायामन्तर्दशामितिरित्युपपन्नम् ॥ १०७ ॥
दशाको दशावर्षसे गुणा करके सर्वायुः संख्या ( पूर्णायु ) से भाग दे लब्ध वर्ष, मास,
दिनादिक अन्तर्दशा होती है ॥ १०७ ॥
चक्रेशाब्दा भुक्तिराशीश्वराब्दैर्हत्वा तत्तद्राशिमानायुराप्ताः ।
अब्दा मासा वासरा नाडिकाद्या दुःस्थानेशा दुःखरोगाकराः स्युः ॥१०८॥
इत्थं महादायदिनं महाब्दैः सङ्गुण्य तत्रान्तरदास्तु दाये ।
पुनस्तदा तत् परमायुरब्दैर्हृतं दशास्वान्तरगा दशा स्यात् ॥ १०९ ॥
विनाडीकृत्य नक्षत्रं स्वैः स्वैः संवत्सरैः पृथक् ।
दायैः सङ्गुण्य सर्वायुराप्तं सूक्ष्मदशाफलम् ॥ ११० ॥
ग्रहवत्सरवासरा हृताः परमायुष्यसमामितध्रुवैः ।
निजवर्षगुणाः स्वपाकदा इति पाकेष्वखिलेषु चिन्तयेत् ॥ १११ ॥
इति श्रीनवग्रहकृपया वैद्यनाथविरचिते जातकपारिजाते सप्तदशोऽध्यायः ॥१७॥
एते श्लोकाः १०७ श्लोकतुल्यार्थका एवेत्यलम् ॥ १०८-१११ ॥
पारिजाते सुधा टीका कपिलेश्वरनिर्मिता। कालचक्रदशाख्येऽस्मिन्नध्याये पूर्णतां गता १७
चक्रेशके वर्षको भुक्तिराशीश्वरके वर्षसे गुणा कर उस २ राशिके पूर्णायुसे भाग देनेसे
वर्ष, मास, दिन, घटी आदि स्पष्ट होता है। दुष्ट स्थानका स्वामी दुःख रोग कारक होता है ।
इस प्रकार एकके महादशावर्षको दूसरेके महादशावर्षसे गुणा कर वहां परमायु संख्यासे
( १२० से ) भाग देवे तो दशामें अन्तर्दशा होती है ॥ १०९ ॥
नक्षत्रके घट्यादिको पला बनाकर उस नक्षत्रकी पूर्णायुसे गुने और पूर्णायु (सर्वायु)
मानसे भाग देवे तो लब्ध वर्षादि सूक्ष्म दशा होगी ॥ ११० ॥
जिस ग्रहकी दशामें अभीष्ट ग्रहकी अन्तर्दशा लानी हो उसकी दशा वर्षादिको पूर्णायुसे
भाग दे और अभीष्ट ग्रहकी दशा वर्षसे गुणा करे तो वर्षादि अन्तर्दशा हर एककी होती है ॥
इति जातकपारिजाते कालचक्राख्ये सप्तदशाध्याये 'विमला' हिन्दी टीकासमाप्ता ॥ १७ ॥