जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 532, कुल 588 में से
संदर्भ में पढ़ें५०६ सटीकजातकपारिजाते-
उस दशामें मृत्यु हो। केवल देहमें हों तो रोग हो। देह या जीव गृहमें बुध, बृहस्पति,
शुक्र हों तो सम्पूर्ण सुख-सम्पत्ति करें और शोक रोगका संहार करें। यदि देह-जीव
मिश्र ग्रहसे युक्त हो तो मिश्र फल होवे ॥ १४-१६ ॥
सिंहावलोकसमये मण्डूकगतिसम्भवे ।
अपमृत्युभयं तस्मिन् प्रायश्चित्ताद्विमुच्यते ॥ १७ ॥
सिंहावलोकसमय इति । सिंहावलोकनं मण्डूकगतिञ्चाग्रे (८९-९१ श्लोके ) वक्ष्यति।
“कालचक्रगतिस्त्रेधा निश्चिता पूर्वसूरिभिः । मण्डूकगमनं चैव पृष्ठतो गमनं तथा ॥
सिंहावलोकनं नाम पुनरागमनं भवेत् । पृष्ठतो गमनं चैव कर्किकेसरिणोरपि ॥
मीनवृश्चिकयोश्चापमेषयोः केसरी गतिः । कन्याकर्कटयोः सिंहयुग्मयोर्मण्डुकी गतिः” इति ॥
तथा पाराशरीये-“प्रथमे गतिर्मण्डूकी द्वितीये मर्कटी तथा।
बाणायनवपर्यन्तं गतिः सिंहावलोकनम् ॥
कन्यायां कर्कटे वाऽपि सिंहसे मिथुनेऽपि च। मण्डूकीगतिसंज्ञो वै तादृशं रोगकारणम् ॥
मीने तु वृश्चिके वाऽपि चापे मेषे तथैव च। सिंहावलोकनं चैव तादृशं च फलं लभेत्” इति॥
अत्रैतदुक्तं भवति । कालचक्रदशायामुक्तलक्षणकेऽन्तरे प्राप्ते सति तत्तत्फलं वाच्यम् ।
तत्र गतिज्ञानाय चक्रमेव द्रष्टव्यम् । लक्षणलक्षिते ग्रहे विविच्य फलमूहनीयमित्यलं
पल्लवितेन ॥ १७ ॥
सिंहावलोकके समयमें मण्डूकगतिके सम्भव होने पर अपमृत्युका भय होता है वह
प्रायश्चित्त (शान्ति) करनेसे छूटता है। (सिंहावलोक, मण्डूकगति, पृष्ठगमनका विवरण
आगे ८९-९१ श्लोकमें कहेंगे) ॥ १७ ॥
मीनात्तु वृश्चिके याते ज्वरं भवति देहिनाम् ।
पाथोनात्कर्कटे याते मातृबन्धुवधूमृतिः ॥ १८ ॥
कर्कटात्तु हरौ याते व्रणरोगं वदेद् बुधः ।
सिंहात्तु मिथुनं याते स्वस्त्रीव्याधिर्मृतिर्भवेत् ॥ १९ ॥
पुत्रबन्धुमृतिं विद्याच्चापान्मेषं गते पुनः ।
शुभग्रहेऽस्मिन्न भयं पापग्रहयुते भयम् ॥ २० ॥
कन्यायाः कर्कटे याते पूर्वभागे महान्भवेत् ।
उत्तरां दिशमाश्रित्य शुभयात्रां गमिष्यति ॥ २१ ॥
सिंहात्तु मिथुनं याते पूर्वभागं विवर्जयेत् ।
कार्यारम्भे तु नैर्ऋत्यां सुखयात्रां गमिष्यति ॥ २२ ॥
कर्कटाद्दक्षिणे सिंहे कार्यहानिश्च रोगकृत् ।
दक्षिणां दिशमाश्रित्य पश्चादागमनं भवेत् ॥ २३ ॥
मीनात्तु वृश्चिके क्रान्ते उदग्गच्छति सङ्कटम् ।
चापान्मेषे भयं यात्रा व्याधिर्बन्धुमृतिर्भवेत् ॥ २४ ॥
तत्र सम्पद्विवाहादि शुभं भवति पश्चिमे ।
शुभारूढे नृपप्रीतिं सर्वसम्पत्करं नृणाम् ॥ २५ ॥
सरलार्थाः किलैते श्लोकाः ॥ १८-२५ ॥
मीनसे वृश्चिक पर जानेवाली अन्तर्दशामें मनुष्योंको ज्वर होता है। एवं कन्यासे
कर्कमें जाने पर माता-बन्धु-स्त्रीको मृत्यु होतो है ॥ १८ ॥
कर्कसे सिंहमें जानेवाली दशामें पण्डित लोग व्रण रोग कहते हैं। सिंहसे मिथुन में जाने
पर अपनी स्त्रीकी व्याधिसे मृत्यु होती है ॥ १९ ॥