जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 524, कुल 588 में से
संदर्भ में पढ़ेंअथ कालचक्रदशाध्यायः ॥ १७ ॥
प्रणम्य परमात्मानं शिवं परमकारणम् ।
खेचरं चक्रमध्यस्थं चतुःषष्टिकलात्मकम् ॥ १ ॥
पप्रच्छ देवदेवेशमीश्वरं सर्वमङ्गला ।
कालचक्रगतिं सर्वां विस्तराद्वद मे प्रभो ॥ २ ॥
अथाधुना कालचक्रदशाध्यायो व्याख्यायते । तत्र प्रथमं कालचक्रगतिविषये भगवत्याः
शङ्करं प्रति प्रश्नः—'प्रणम्येति श्लोकयुगलेन' सरलार्थेन ॥ १-२ ॥
परम कारण परमात्मा खेचर ग्रह-चक्र मध्यस्थ चौसठ कला वाले उस देवदेवेश ईश्वर
श्री शिवजीको भगवती श्री सर्वमङ्गला (गौरी) देखकर प्रणाम कर बोली-हे प्रभो ! मुझे
समस्त कालचक्र गतिको विस्तारसे कहिये ॥ १-२ ॥
ईश्वर उवाच ।
अहमादित्यरूपोऽस्मि चन्द्रमास्त्वं प्रचक्षसे ।
संयोगेन वियोगेन जगत्स्थावरजङ्गमम् ॥ ३ ॥
भगवत्याः पूर्वोक्तं (कालचक्रविषयकं) प्रश्नं निशम्य तदुत्तरमाह महादेवः—अहमिति ।
अहं किल सर्वेषामात्मा, आदित्यरूपः = सूर्य इवास्मि । 'सूर्य आत्मा जगतस्तस्थुषश्च' इति
श्रुतौ गीतत्वात् । त्वं चेश्वरी चन्द्रमाः प्रचक्षसे, सर्वेषां मनस्त्वात् । 'चन्द्रमा मनसो जातः'
इति तथा "आत्मा रविः शीतकरस्तु चेतः" इति ज्योतिषे च बहुधाऽभिहितत्वात् । अत
एवात्म-मनसोः संयोगेन वियोगेन स्थावरजङ्गमं = चराचरं, जगत् प्रकटीभवति, तिरोभवति
चेति । इदमुक्तं भवति । सूर्याचन्द्रमसावेव दशायां कारणत्वेन गृह्येते । ताभ्यामेव नक्षत्रस्य
कालस्य चावगमनात् ॥ ३ ॥
श्री शङ्करजी बोले—मैं सूर्य स्वरूप हूं, तू प्रत्यक्ष चन्द्रमा हो, हमारे तुम्हारे संयोग
वियोगसे ही समस्त चराचर संसारकी सृष्टि और लय होते हैं ॥ ३ ॥
पञ्च प्राचीरालिखेद्भागसङ्ख्यास्तिर्यग्रेखा वर्जितान्तश्चतुष्काः ॥
प्रागादीशा द्वादश व्योमवासा ज्योतिश्चक्रस्वामिनस्तूत्तराद्याः ॥ ४ ॥
धराजशुक्रज्ञशशीनसौम्यसितारजीवार्कजमन्दजीवः ।
क्रमेण मेषादिकरा शिनाथास्तद्दशापाश्चेति वदन्ति सन्तः ॥ ५ ॥
भूतैकविंशाद्रिरयो नवदिक् षोडशाब्धयः ।
सूर्यादीनां क्रमादब्दा राशीनां स्वामिनो वशात् ॥ ६ ॥
आश्वीपुनर्वसू हस्तमूलप्रोष्ठपदादिषु ।
अंशकान् गणयेन्मेषात्प्रादक्षिण्यक्रमं वदेत् ॥ ७ ॥
रोहिणीमघवैशाखवैष्णवादिषु भेषु च ।
अंशकान् वृश्चिकादीनां गणयेदपसव्यतः ॥ ८ ॥
दक्षिणाभिकनक्षत्रं द्वादशांशकराशिषु ।
चक्रं प्रदक्षिणीकृत्य मीनान्ते विन्यसेत्पुनः ॥ ९ ॥
उत्तरात्रयनक्षत्रं वृश्चिकाद्यप्रदक्षिणम् ।
कृत्वा चापान्तकेऽन्यस्मिन् ज्ञातव्ये दक्षिणोत्तरे ॥ १० ॥
सव्यापसव्यमार्गेण चाश्विन्यादि त्रिकं त्रिकम् ।
देहादि गणयेत्सव्ये वामे जीवादि गण्यते ॥ ११ ॥