सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 516, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 516

४१० सटीकजातकपारिजाते-
तुङ्गस्था इति । शुभकरा गगनाटनाः = शुभग्रहाः यत्र तत्र भावे, तुङ्गस्थाः = स्वस्वो-
च्चगताः स्युः, रन्ध्रे = अष्टमे भावे, सपापे = पापग्रहेण सहिते, पापभवने = पापग्रहराशौ,
पापग्रहालोकिते च सति जाता स्त्री वैधव्यं समुपैति । विधवा भवतीत्यर्थः । योगान्तर-
माह-रन्ध्रेशो (अष्टमेशः ) यस्मिन्नवांशे तिष्ठति तन्नवांशपतौ खले = पापग्रहे सति
भामिनी = स्त्री, निःसंशयः = अवश्यमेव, विधवा भवति । सधवामरणमाह । सौम्यैः = शुभग्रहैः,
रन्ध्रगतैः =अष्टमभावस्थितैः, पतेः = स्वामिनः, प्रागेव=पूर्वमेव, तरुणी = स्त्री, मृत्युं समेति ।
अस्मिन्कयोगे जाता स्त्री सधवा सती म्रियते इत्यर्थः ॥ २७ ॥
अपने २ उच्च स्थानमें शुभ ग्रह हों, पापग्रहकी राशिमें पापयुक्त अष्टम स्थान पापग्रह
से दृष्ट हो तो स्त्री विधवा होवे । अष्टमेशका नवांश पति पापग्रह हो तो निःसन्देह विधवा
हो । शुभग्रह यदि ८ वेंमें हो तो स्वामीसे पहले मरे ॥ २७ ॥
भाग्यस्थाः शुभखेचराः स्मरगते पापेऽष्टमस्थेऽथवा
भर्तृश्रीबहुपुत्रसौख्यविभवैः सार्द्धं चिरं जीवति ।
क्रूरैर्बन्धुगृहोपगैर्बहुसुतप्राप्ता भवत्यङ्गना
चापे वा कटकोदये पतिसुतप्राप्ता दरिद्रान्विता ॥ २८ ॥
भाग्यस्था इति । शुभखेचराः = बुधगुरुशुक्रशुक्लचन्द्राः, भाग्यस्थाः = नवमभावगता
भवेयुः, पापे = सूर्यभौमशनीनामन्यतमे ग्रहे, स्मरगते = सप्तमस्थे, अथवा अष्टमस्थे सति
स्त्री, भर्त्रा, श्रिया, बहुपुत्रैः, सौख्यैः, विभवैश्च सार्द्धं चिरं = दीर्घकालं जीवति । योगेऽस्मि-
न्सफलसुखसम्पन्ना सती दीर्घजीविनी भवति । क्रूरैः = पापैः, बन्धुगृहोपगैः = चतुर्थभाव-
मुपगतैः अङ्गना = स्त्री, बहुसुतप्राप्ता = अनेकसन्ततियुक्ता भवति । चापे = धनुषि, वा कट-
कोदये = कर्कराशिलग्ने सति स्त्री पतिसुतप्राप्ता = भर्तृपुत्रवती, दरिद्रान्विता = निर्धना भव-
ति । तथा हि-
'भाग्यस्थाने स्थिते सौम्ये सपापेऽस्तेऽष्टमेऽपि वा । भर्तृपुत्रसुखैः सार्द्धं दीर्घकालं च जीवति ॥
धनुःकर्कटके लग्ने भर्तृपुत्रादिदुःखदा” इति यवनः ॥ २८ ॥
नवमें गृहमें शुभग्रह हों सप्तम वा अष्टममें पापग्रह हों तो वह स्त्री पति-लक्ष्मी-बहुत
पुत्र-सुख-विभवके साथ बहुत काल तक जीवित रहती है । क्रूरग्रह ४ र्थ स्थानमें हों तो
उस स्त्रीके बहुत पुत्र होवें । लग्नमें धनु वा कर्क हो तो पति-पुत्रसे युक्त दरिद्रा होवे ॥ २८ ॥
गोसिंहालिवधूदये सुतगते चन्द्रेऽल्पपुत्रान्विता
पापैरस्तसुभोदयाष्टमगतैर्दारिद्र्यशोकाकुला ।
सौम्यासौम्ययुतैश्च मिश्रफलिनी सौम्यैः शुभश्रीयुता
पुत्रेशेऽरिगते तनौ रिपुपतौ शस्त्रेण मृत्युर्भवेत् ॥ २६ ॥
गोसिंहेति । गोसिंहालिवधूदये सुतगते = पञ्चमे भावे वृषसिंहवृश्चिककन्यान्यतमे राशौ
तस्मिंश्चन्द्रे व्यवस्थिते सति जाता स्त्री अल्पपुत्रवती भवति । तथा च गर्गः--
“सिंहलिवृषकन्यासु चन्द्रे तिष्ठति पञ्चमे । अल्पापत्यं विजानीयात् पुरुषेषु तथा वदेत्” इति।
पापैरिति । पापग्रहैः यथासम्भवं, अस्तसुभोदयाष्टमगतैः = सप्तमनवमप्रथमाष्टमभावग-
तैः, स्त्री दारिद्र्यशोकेनाकुला भवति । पूर्वोक्तैर्भावैः सौम्यासौम्ययुतैः=शुभैः पापैश्च युतैः
मिश्रफलिनी = शुभाशुभफलद्वयवती भवति । पूर्वोक्तैर्भावैः केवलं सौम्यैः युतैः शुभश्रीयुता
भवति । स्त्रियाः शस्त्रकृतं मरणमाह-पुत्रेशे इति । पञ्चमभावेशे, अरिगते = षष्ठभावगते,
रिपुपतौ = षष्ठेशे, तनौ = लग्ने विद्यमाने सति स्त्रियाः शस्त्रेण मृत्युर्भवेत् ॥ २९ ॥
वृष, सिंह, वृश्चिक या कन्या लग्न हो, पंचममें चन्द्रमा हो तो थोड़े पुत्र होवें । पापग्रह
सप्तम, नवम, लग्न तथा अष्टममें हों तो दरिद्रताके शोकसे व्याकुल हो । शुभग्रह, पापग्रह