जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 485, कुल 588 में से
संदर्भ में पढ़ेंदशमैकादशद्वादशभावफलाध्यायः ॥१५॥ ४५६
जलचर राशिका चन्द्रमा तृतीयमें हो तो जातक जीर्णोद्धार पुण्यको करे। लग्नसे दश-
मेश गोपुरांशमें हो तो तालाब, कूप आदि निर्माण करनेवाला होवे ॥ १४ ॥
अथ प्रव्रज्यायोगः ।
अथातः अष्टाविंशतिभिः श्लोकैः प्रव्रज्यायोगा उच्यन्ते —
जातः पञ्चचतुर्विद्यच्चरवरैः केन्द्रत्रिकोणस्थितै-
रैकस्थैर्बलिभिः प्रधानबलवत्खेटाश्रमस्थो भवेत् ।
आदित्यासितजीवशुक्रधरणीपुत्रेन्दुतार्रासुतै-
र्वानप्रस्थविवासभिक्षुचरकाः शाक्यो गुरुर्जीवकः ॥ १५ ॥
वानप्रस्थस्तपस्वी वनगिरिनिलयो नग्नशीलो विवासा
भिक्षुः स्यादेकदण्डी सततमुपनिषत्तत्वनिष्ठो महात्मा ।
नानादेशप्रवासी चरकपतिवरः शाक्ययोगी कुशीलो
राजश्रीमान् यशस्वी गुरुरशनपरो जल्पको जीवकः स्यात् ॥ १६ ॥
इदानीं प्रव्रज्यायोगं सूर्यादिसप्तग्रहाणां पृथक् पृथक् प्रव्रज्यां प्रव्रज्यालक्षणञ्चाह—
जात इति द्वाभ्याम् । पञ्चचतुर्विद्यच्चरवरैः = पञ्चभिश्चतुर्भिर्वा ग्रहैरेकस्थैः = सम्मिलितैर्ब-
लिभिश्च सद्भिः, केन्द्र-त्रिकोणस्थितैः = केन्द्रे ( १।४।७।१० ) वा त्रिकोणे ( ५।९ ) व्यव-
स्थितैः । अत्रेदं किल विचिन्त्यम् । बलवन्तः पञ्च, चत्वारो वा ग्रहा एकत्र सम्मिलिताः
सन्तः केन्द्रे वा कोणे स्थिता भवेयुः, तदा जातः प्रधानबलवतः = तेषु पञ्चसु चतुर्षु वा
ग्रहेषु यः प्रधानबलवान् ( सर्वापेक्षया बलीयान् ) भवेत्तस्य खेटाश्रमस्थः ( यस्य ग्रहस्य
य आश्रमस्तदाश्रमगतः ) भवेत् ।
अथ ग्रहाणां प्रव्रज्याश्रममाह—आदित्येत्यादि । आदित्यासितजीवशुक्रधरणीपुत्रे-
न्दुतारासुतैः = सूर्य-शनि-गुरु-शुक्र-कुज-चन्द्र-बुधैः क्रमात्-वानप्रस्थ-विवासः-भिक्षु-
चरक-शाक्य-गुरु-जीवकाः प्रव्रज्या ज्ञातव्याः । एवमुक्तं तत्र भवता वराहेण—
“चतुरादिभिरेकस्थैः प्रव्रज्यां स्वां ग्रहः करोति बली ।
बहुभिर्यैस्तावत्यः प्रथमा वीर्याधिकस्यैव ॥
तापसवृद्धश्रावककञ्चटाजीविभिक्षुचरकाणाम् ।
निर्ग्रन्थानां चार्कात् पराजितैः प्रच्युतिर्बलिभिः” इति ॥
अथ पूर्वोक्तप्रव्रज्यानां लक्षणान्याह—वानप्रस्थेत्यादि ।
वानप्रस्थः - तपस्वी, वनगिरिनिलयः = वनानि, गिरयश्च निलयो गृहं यस्येति स
वानप्रस्थ उच्यते ।
विवासाः—नग्नशीलः = वस्त्ररहितः ( नग्नः ) विवासाः कथ्यते ।
भिक्षुः—एकदण्डी = एकदण्डधरः, सततमुपनिषत्तत्वनिष्ठः = ब्रह्मविचारणपरः, महा-
त्मा च भिक्षुरुच्यते ।
चरकः—चरकपतिवरः, नानादेशप्रवासी = विविधदेशभ्रमणशीलः भवति ।
शाक्यः — शाक्ययोगी, कुशीलः = दुराचारवान् वञ्चकः भवति ।
गुरुः—राजश्रीमान् = राजसम्पद्युतः, यशस्वी = कीर्तिमाँश्च भवति ।
जीवकः—अशनपरः=केवलमुदरम्भरः, जल्पकः=वावदूकश्च भवति ॥ १५-१६ ॥
बलवान् पांच या चार ग्रह केन्द्र ( १।४।७।१० ) या त्रिकोण ( ५।९ ) में से एक स्थान
में स्थित हों उनमें सबसे अधिक बलवाले ग्रहका आश्रमस्थ जातक होगा। यहां सूर्य, शनि,
गुरु, शुक्र, मङ्गल, चन्द्र और बुधसे क्रमसे वानप्रस्थ, विवास (नङ्गा), भिक्षु, चरक,