सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 481, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 481

दशमैकादशद्वादशभावफलाध्यायः ॥१५॥ ४५५
दशमभावेशे बुधे, व्यये = द्वादशे वा स्वोच्चान्विते = स्वकीयोच्चराशि गते सति जातः तादृश-
पुण्यभाक् = कथितपुण्ययुक्तः ( जातः स मुक्तो भवेदिति ) स्यादिति ॥ ३ ॥
दशमेश शुक्रसे युक्त केन्द्रमें बैठा हो । द्वादशमें बुध हो, वा द्वादशका स्वामी वहां हो,
उच्चराशिका हो तो उसीके सदृश पुण्यका भागी हो ॥ ३ ॥
चन्द्रे कर्मणि जाह्नवीसलिलतः पूतो हि पूतद्युतौ
पापो यच्छति कर्मगो विबलवान् द्यूतक्रियासाहसम् ।
सौम्या दुर्बलशालिनो दशमगाः सत्कर्मविध्वंसकाः
कर्मेशाज्ञसुरार्चितैः क्रतुफलं सञ्चिन्त्य सम्यग्वदेत् ॥ ४ ॥
चन्द्र इति । पूतद्युतौ = विमलकिरणौ = परिपूर्णबिम्बे चन्द्रे कर्मणि = दशमभावे विल-
सति सति जातो नरो हि = निश्चयेन जाह्नवीसलिलतः = गङ्गाजलतः, पूतः = विधूतपापः
भवेत् । पाप इति । कर्मगः = दशमभावगतः विबलवान् = दुर्बलः पापः द्यूतक्रियासाहसम् =
अक्ष-( जूआ ) क्रीडोत्कर्षं यच्छति = करोतीति । सौम्या इति । दुर्बलशालिनः = निर्बलाः,
सौम्याः = शुभग्रहाः, दशमगाश्चेद्भवेयुस्तदा सत्कर्मविध्वंसकाः = तीर्थस्नानदेवयज्ञव्रतादीनां
विनाशकाः भवेयुः । कर्मेशाज्ञसुरार्चितैः = कर्म-( दशम ) ईश-बुध-गुरुभिः, कर्मगैः
( दशमगैः ) ऋतुफलं = यज्ञफलं लभेत् । इति सम्यक् सञ्चिन्त्य = विविच्य, ग्रहसंस्थिति-
वशात् सर्वं वदेत् ॥ ४ ॥
पूर्ण चन्द्रमा दशवें भावमें हो तो जातक गङ्गाजलसे पवित्र हो । बलरहित पापग्रह
दशवें में हो तो जुवा काममें साहसी हो । निर्बल शुभग्रह दशवें स्थानमें हो तो सत्कर्म
का संहार कारक हो । दशमेश, बुध तथा बृहस्पति दशवेंमें हों तो जातक यज्ञकर्त्ता होवे ।
ये सब फल अच्छे प्रकारसे विचारकर कहे ॥ ४ ॥
एकस्थौ तनुकर्मपौ यदि तयोरेकाधिपत्यं तु वा
जातः स्वार्जितसद्धनेन कुरुते यज्ञादिकर्मोत्सवम् ।
सार्कौ शूद्रधनेन साहिशिखिनि क्षुद्रैः सजीवे नृप-
स्तत्तत्कारकवित्ततो यदि युते रव्यादिभिः कर्मपे ॥ ५ ॥
एकस्थाविति । तनुकर्मपौ = लग्नेश-दशमेशौ यदि, एकस्थौ = यत्र तत्रैकत्र सङ्गतौ
भवेताम्, वा तयोः = लग्नकर्मभावयोः, एकाधिपत्यम् = एकस्वामित्वं भवेत्, तदा जातः,
स्वार्जितसद्धनेन = निजबाहुबलादुपार्जितेन सद्द्रव्येण यज्ञादिकर्मोत्सवं कुरुते । न खलु
तस्यासन्मार्गे द्रव्यापायो भवतीति ।
सार्काविति । कर्मपे = दशमेशे, सार्कौ = आर्किणा ( शनिना ) सहिते सति शूद्रधनेन
यज्ञादिकर्मोत्सवं कुरुते । तस्मिन्कर्मपे, साहिशिखिनि = अहिना ( राहुणा ) शिखिना
( केतुना ) वा सहिते सति, क्षुद्रैः = क्षुद्रजातिधनैः, सजीवे = जीवेन ( गुरुणा ) सहिते
कर्मपे सति नृपैः = राजन्यद्रव्यैः यज्ञादि कुरुते ।
तत्तदिति । कर्मपे रव्यादिभिः = सूर्यप्रमुखैः ग्रहैः युते सति तत्तत्कारकवित्ततः =
दशमेशसंयुक्तो रव्याद्यन्यतमो ग्रहो यस्य भावस्य जातीयस्य वा कारको भवति तदुपार्जि-
तद्रव्यतो यज्ञादिकर्मोत्सवं कुरुते जातक इति ।
Notes-तयोरेकाधिपत्यमित्यत्र लग्नदशमभावयोरेक एवाधिपतिस्तदैव भवेत्
यदि कन्या मीनो वा राशिलंग्नं स्यात् । कन्यालग्ने सति तस्माद्दशमो मिथुनराशिस्तेन
लग्नदशमयोरेक एव बुधोऽधिपतिः । मीनलग्रे तस्माद्दशमो धनुराशिरतो लग्नदशमयोरेक
एवाधिपो गुरुरिति ॥ ५ ॥