जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 479, कुल 588 में से
संदर्भ में पढ़ेंसप्तमाष्टमनवमभावफलाध्यायः ॥१४॥ ४५३
जातस्य पुत्रोत्पत्तिर्न भवतीत्यर्थः । अथ यदि तौ नभोगौ = ग्रहौ ( तातेशत्तत्कारकखे-
चरौ ) केन्द्रत्रिकोणे ( १।४।७।१०।५।९ ) भवेतां तदा तयोः = दम्पत्योः पुत्रमुखं, हि=नि-
श्चयेन दृश्यं भवेदिति ॥ ९९ ॥
नवमेश और पितृ कारक ग्रह उन दोनोंके दुष्ट स्थानमें होनेसे पुत्रका सुख नहीं देखे ।
यदि वे दोनों ग्रह केन्द्र, कोणमें हों तो पुत्रका सुख देखे ॥ ९६ ॥
इदानीं जातस्य पितुर्मरणं दिने रात्रौ वा स्यादित्याह—
पितुर्निशायां मरणं सुखेशशुकेन्दवः षष्ठगता वलाढ्याः ॥
सारीश्वरास्तन्मरणं तथैव चन्द्रेण हीनास्तु दिवा मृतिः स्यात् ॥ १०० ॥
पितुरिति । सुखेशशुकेन्दवः = चतुर्थेश-शुक्र-चन्द्राः बलाढ्याः सन्तो यदि षष्ठगताः
लग्नात् षष्ठभावे व्यवस्थिताः स्युस्तदा पितुः मरणं, निशायां = रात्रौ वक्तव्यम् । अथ त-
एव त्रयो ग्रहाः ( सुखेशशुकेन्दवः ) सारीश्वराः = षष्ठेशेन सहिताः, चन्द्रेण हीनाश्च
भवेयुः, अर्थात् चतुर्थेश षष्ठेश-शुक्रास्तथैव ( बलाढयाः षष्ठगताश्च भवेयुस्तदा तु पितुः
दिवा = दिन एव, मृतिः = मरणं स्यादिति ॥ १०० ॥
चतुर्थेश, शुक्र और चन्द्रमा ६ ठे स्थानमें हों तो रात्रिमें पिताकी मृत्यु हो । यदि वहां
चन्द्रमा न हो और षष्ठेशसे युक्त हो-तो दिनमें पिताकी मृत्यु होवे ॥ १०० ॥
सौम्ये चराद्यभागस्थे भाग्येशे बलसंयुते ॥
गुरुशुक्रयुते दृष्टे जपध्यानसमाधिमान् ॥ १०१ ॥
सौम्य इति । सौम्ये = शुभे ( बुध इत्यर्थः ) भाग्येशे = नवमभावपतौ बलसंयुते सति
चराद्यभागस्थे = चरराशिप्रथमनवांशमुपगते तस्मिन् गुरुशुक्रयुते, वा गुरुशुक्रदृष्टे जातो जप-
ध्यानसमाधिमान् भवेत् । तुलामकरान्यतरलग्ने सङ्गच्छतेऽयं योगः ॥ १०१ ॥
शुभग्रह नवमेश बलवान् होकर चरराशिके प्रथम नवांशमें हो गुरु और शुक्रसे युत दृष्ट
हो तो जप-ध्यान-समाधि वाला होवे ॥ १०१ ॥
देवलोकादिभागस्थे कर्मेशे भाग्यपेऽपि वा ।
पारावतांशके सौम्ये ब्रह्मनिष्ठापरो भवेत् ॥ १०२ ॥
देवलोकादिभागस्थ इति । कर्मेशे = दशमभावपतौ, अपि वा भाग्यपे = नवमेशे, देव-
लोकादिभागस्थे ( १ अ० ४५-४७ श्लो० द्र० ) सौम्ये=कस्मिंश्चिच्छुभग्रहे पारावतांशके
गतवति जातो ब्रह्मनिष्ठापरः = ब्रह्मज्ञानी भवेत् ॥ १०२ ॥
कर्मेश या शुभ भाग्येश अपने देवलोकादि भागमें हो, वा पारावतांशमें हो तो ब्रह्मनि-
ष्ठामें जातक तत्पर हो ॥ १०२ ॥
पारावतादिभागस्थे धर्मेशे गुरुसंयुते ।
लग्नेशे गुरुसन्दृष्टे महादानकरो भवेत् ॥ १०३ ॥
इति श्रीनवग्रहकृपया वैद्यनाथविरचिते जातकपारिजाते चतुर्दशोऽध्यायः ॥१४॥
पारावतादिभागस्थ इति । धर्मेशे=नवमभावपतौ गुरुणा संयुते तथा स्वपारावतादि-
भागे गतवति, लग्नेशे च गुरुसंदृष्टे सति जातो महादानकरो भवेदिति ॥ १०३ ॥
पारिजाते सुधा टीका कपिलेश्वररचिता ।
अध्याये शक्रतुल्ये- ( १४ ) ऽस्मिन् पूर्त्ति भावफले गता ॥ १४ ॥
धर्मेश बृहस्पतिसे युक्त पारावतादि भागमें हो लग्नेश गुरुसे देखा जाता हो तो जातक
महादानी होता है ॥ १०३ ॥
इति जातकपारिजाते चतुर्दशे भावफलाध्याये 'विमला' हिन्दी टीका समाप्ता ॥ १४ ॥