सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 475, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 475

मातुः = स्वजनन्यः, सपत्नीजनकः = सापत्त्यकारको भवेत् , विभुः = समर्थश्च स्यात् ।
(चं० बु० श० )-सुधारश्मिबुधार्कपुत्राः = चन्द्रबुधशनैश्चरा यदि नवमोपगताः स्यु-
स्तदा जातः पापी, विवादप्रियबुद्धियुक्तः = विवादशीलश्च भवेदिति ॥ ८३ ॥
चन्द्रमा, बुध और शुक्र नववेंमें प्राप्त हों तो अपनी माताकी सपत्नी (सौत) उत्पन्न
करावे और पराक्रमी हो । चन्द्रमा, बुध और शनि नववें हों तो जातक पापी, विवादप्रिय
और बुद्धियुक्त हो ॥ ८३ ॥
चन्द्रामरेज्यौ ससितौ महीपः सार्कात्मजौ सद्गुणकर्मशीलः ॥
मन्दज्ञशुक्रा नरपालतुल्यः कृषिक्रियावित्तपरो गुरुस्थाः ॥ ८४ ॥
चन्द्रामरेज्याविति । (चं० बृ० शु०)-ससितौ = शुक्रसंयुतौ, चन्द्रामरेज्यौ=चन्द्र-
गुरु यदि नवमगतौ भवेतां तदा जातः महीपः = राजा भवेत् ।
(चं० बृ० श०)-सार्कात्मजौ = शनिना सहितौ चन्द्रगुरू नवमगौ चेत्तदा जातः
सद्गुणकर्मशीलः = विहितसत्कर्मकृद्भवेत् ।
(बु. शु. श.)-मन्दज्ञशुक्राः = शनिबुधशुक्राः, गुरुस्थाः = नवमभावगताः स्युस्तदा
जातः नरपालतुल्यः=राजसमः, कृषिक्रियावित्तपरः=कृषिकर्मणा धनोपार्जनशीलश्च भवेदिति ॥
चन्द्रमा और गुरु शुक्रके सहित नववें में हों तो राजा, शनिके साथ हों तो सद्गुण
कर्मशील हो। नववेंमें शनि, बुध और शुक्र हों तो राजाके तुल्य और कृषिक्रियासे धनार्जनमें
तत्पर हो ॥ ८४ ॥
राजप्रियो माण्डलिकः सजीवौ भाग्यस्थितौ भूसुतचन्द्रपुत्रौ ।
शाली सशुकौ चपलश्च भीरुः सभानुजौ वादपरोऽसमर्थः ॥ ८५ ॥
राजप्रिय इति । (मं. बु. बृ.)-सजीवौ = गुरुणा सहितौ भूसुतचन्द्रपुत्रौ = मङ्गल-
बुधौ यदि भाग्यस्थितौ = नवमभावगतौ स्यातां तदा जातः राजप्रियः = नृपमित्रः, माण्ड-
लिकः = मण्डलशासकः ( Ruler of a Province ) भवेत् ।
(मं. बु. शु.)-सशुक्रौ कुजबुधौ भाग्यस्थौ स्यातां तदा जातः, शाली = शास्त्रवेत्ता
चपलः = चपलमत्तिः, भीरुः = भयभीतश्च भवेत् ।
(मं. बु. श.)-सभानुजौ = शनिना सहितौ कुजबुधौ भाग्यस्थौ स्यातां तदा जातः
वादपरः = विवादशीलः, असमर्थः = सर्वत्रैव कार्ये अक्षमो भवेदिति ॥ ८५ ॥
बृहस्पतिके साथ मङ्गल और बुध भाग्य भवनमें हों तो राजाका प्रिय, प्रान्त का शासक
हो। शुक्रके साथ हो तो, शास्त्रवेत्ता, चञ्चल, भीरु (डरपोक) हों । शनिसे युक्त हो तो
विवादमें तत्पर और कार्योंमें असमर्थ हो ॥ ८५ ॥
ख्यातो विद्वान् धर्मवान् जीवसौम्यौ धर्मस्थाने दानवाचार्ययुक्तौ ।
विद्यावाग्मी सासितौ धर्मयातौ राजश्रीमान् जीवशुक्रज्ञचन्द्राः ॥ ८६ ॥
ख्यात इति । (बु. बृ. शु.)-जीवसौम्यौ = गुरुबुधौ, दानवाचार्येण = शुक्रेण युक्तौ
धर्मस्थाने = नवमे भावे भवेतां तदा जातः ख्यातः = अतिप्रसिद्धः, विद्वान्, धर्मवांश्च भवेत् ।
(बु. बृ. श.)-सासितौ = शनैश्चरेण सहितौ गुरुबुधौ नवमगौ स्यातां तदा विद्या-
वाग्मी = विविधविद्यासु चतुरो भवेत् ।
अथ नवमे भावे केषाञ्चित् चतुर्ग्रहाणां योगफलमाह - राजश्रीमानिति ।
(चं. बु. बृ. शु.)-जीवशुक्रज्ञचन्द्रा यदि नवमभावमुपगताः स्युस्तदा बातः राज-
श्रीमान् = राजलक्ष्मीयुतो भवेदिति ॥ ८६ ॥
धर्मस्थानमें शुक्रसे युक्त बृहस्पति और बुध हों तो नामी, विद्वान् और धर्मवान् हो ।