सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 473, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 473

सप्तमाष्टमनवमभावफलाध्यायः ॥१४॥ ४५७
(सू. चं. बृ.)—रवीन्दुजीवा यदि नवमे स्युस्तदा जातः सुखवाहन व्यो भवेदिति ॥७८॥
यदि नवममें सूर्य चन्द्र और मंगल हों तो जातकके शरीरमें क्षत ( घाव ) हो और वह
माता पितासे हीन हो। नवममें रवि, चन्द्र और बुध हों तो हिंसा कर्म करनेवाला, कुला-
चार हीन हो। नवममें रवि, चन्द्र और गुरु हों तो जातक सुख और वाहनसे पूर्ण हो ॥७८॥
चन्द्राकौ ससितौ वधूकलहकृद् राजप्रियो वित्तहा
भाग्यस्थौ रविशीतगू शनियुतौ भृत्यो विरोधी सताम् ।
रव्यारौ सबुधौ तु तत्र सुभगः क्रुद्धो विवादप्रियः
सेज्यौ देवपितृप्रियः सुतवधूवित्तान्वितो जायते ॥ ७६ ॥
चन्द्राकाविति ( सू. चं. शु. )—ससितौ = शुक्रेण सहितौ चन्द्राकौ भाग्यस्थौ स्यातां
तदा जातो नरो वधूकलहकृत = स्त्रीभिः सह झकटकरः, राजप्रियः, वित्तहा=धनक्षयकरश्च भवेत्।
( सू. चं. श. )—शनियुतौ रविशीतगू भाग्यस्थौ स्यातां तदा जातः भृत्यः = परेषां
सेवकः, सतां = सज्जनानां विरोधी च भवेत् ।
( सू. मं. बु. )—सबुधौ = बुधेन सहितौ रव्यारौ = सूर्यभौमौ, तत्र = भाग्ये भवेतां
तदा जातः सुभगः = दर्शनीयशरीरः, क्रुद्धः, विवादप्रियश्च भवेत् ।
( सू. मं. बृ. )—सेज्यौ = गुरुणा सहितौ सूर्यभौमौ भाग्यगतौ स्यातां तदा जातः
देवपितृप्रियः, सुतवधूवित्तान्वितः = स्त्रीपुत्रधनैः सङ्कुलश्च भवेदिति ॥ ७९ ॥
यदि ९ वें भावमें सूर्य, चन्द्रमा और शुक्र होवें तो जातक स्त्रीसे झगड़नेवाला, राजा-
का स्नेही और धननाश करनेवाला होता है ।
सूर्य, चन्द्रमा और शनि ९ वेंमें होवें तो जातक दूसरेका नौकर और भले आदमियों
का विरोधी होता है ।
सूर्य, मंगल और बुध नवमें भावमें होवें तो जातक देखनेमें .सुन्दर, क्रोधी और विवा-
दप्रिय होता है ।
सूर्य, मङ्गल और गुरु ९ वें में हों तो देवता और पितरोंके प्रिय, पुत्र, स्त्री और धनोंसे
पूर्ण होता है ॥ ७९ ॥
सूर्यारौ ससितौ विवादनिरतः कोपी वधूदूपक-
च्छायासूनुयुतौ विबन्धुरधनो साधुः पितुर्मारकः ।
धर्मस्थौ रविचन्द्रजौ गुरुयुतौ राजप्रियो वित्तवान्
साच्छौ राजसमः समानुतनयौ पापी परस्त्रीपतिः ॥ ८० ॥
सूर्याराविति । ( सू० मं० शु० )—ससितौ = शुक्रेण सहितौ सूर्यारौ = रविमङ्गलौ
भाग्यगतौ स्यातां तदा जातो विवादनिरतः, कोपी, वधूदूपकश्च भवेत् ।
( सू० मं० श० )—छायासूनुयुतौ = शनिना सहितौ सूर्यभौमौ भाग्यगतौ तदा जातो
विबन्धुः = बन्धुरहितः, अधनः = दरिद्रः, साधुः = सज्जनः, पितुर्मारकः ( तस्मिञ्जात एव
तस्य पिता म्रियेत इत्यर्थः ) भवेत् ।
( सू० बु० बृ० )—गुरुयुतौ रविचन्द्रजौ ( रविबुधगुरवः ) धर्मस्थौ भवेतां तदा जातो
राजप्रियो वित्तवांश्च भवेत् ।
( सू० बु० शु० )—साच्छौ = शुक्रेण सहितौ सूर्यबुधौ धर्मगतौ तदा जातो राजसमः=
नृपतुल्यो भवेत् ।
( सू० बु० श० )—सभानुतनयौ = शनिना सहितौ सूर्यबुधौ नवमे भवेतां तदा जातो
हि पापी, परस्त्रीरतश्च स्यादिति ॥ ८० ॥
यदि सूर्य, मङ्गल और शुक्र ९ वें भावमें होंवें तो जातक विवादमें निरत क्रोधी, स्त्रियोंसे
30 झगड़ने वाला हो ।