सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 466, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 466

४४० सटीकजातकपारिजाते-
वर्षेण मृत्युं सञ्चिन्तयेत् । अर्थात्पञ्चमेशे ग्रहयोगरहिते सति तदानीं पञ्चमेशस्यैव दशा-
वर्षमानं द्वादशभक्तं कृत्वा लब्धमिते राशौ गतवति सूर्ये मरणमिति ।
अथ तत्र राशौ सूर्ये सति कस्मिन्दिने मरणमित्याह-लग्नेशेनेति । लग्नेशग्रहेण
युताब्दं = सहितग्रहाणां दशावर्षमानं ( तस्मिन् ग्रहयोगाभावे केवलं लग्नेशवर्षमिति )
अङ्गविहृतं = त्रिशद्भक्तं (अत्र क-ट-प-य-वर्णभवैरित्यादिना अङ्गं = ३०) शेषमितं सङ्क्रा-
न्तिपूर्व = सूर्यस्य राशिसङ्क्रमणमारभ्य दिनं वाच्यमर्थात्तद्राशौ तद्दिने मरणं स्यादिति ॥६१॥
लग्नसे पञ्चमराशिके स्वामीसे युक्त ग्रहोंकी दशा संख्यामें १२ से भागदेने पर जो गृह
हो उसमें जब सूर्य हो तो मृत्यु होवे । पञ्चमेश यदि किसी ग्रहसे युक्त न हो तो केवल अपने
वर्ष (दशावर्ष) से विचारे । लग्नेशसे युत वर्षमें ३० का भाग देने पर जो हो उतने दिन
संक्रान्तिसे मृत्युके होते हैं ॥ ६१ ॥
इदानीं मात्रा पित्रा च सह मृत्युयोगम्, अपस्मारान्मृत्युयोगं चाह-
त्रिकोणे केन्द्रे वा यदि पितृतनुक्षेत्रपतयो
दशाभुक्तौ तेषामनुमरणमाहुर्मुनिगणाः ॥
सभौमे मन्दाढ्ये फणियुजि तु वेन्दौ निधनगे
त्वपस्मारस्तस्मान्मरणमथवेन्दौ कृशत नौ ॥ ६२ ॥
त्रिकोण इति । पितृतनुक्षेत्रपतयः = पितृ-( ९ ) भावेशः, लग्नेशः क्षेत्रपतिः = मातृ-
भावपतिः = चतुर्थेशः इति त्रयो ग्रहा यदि त्रिकोणे=लग्नात् ५।९ भावे, वा केन्द्रे १।४।
७।१० भवेयुस्तदा तेषां मध्ये बलीयसो ग्रहस्य दशाभुक्तौ तेषामनुमरणं = सहैव मृत्यं मुनि-
गणाः = पूर्वे महर्षयः आहुः । तथा च सर्वार्थचिन्तामणौ-
सुखेश-भाग्येश-विलग्ननाथास्त्रिकोणगाः केन्द्रगताश्च सर्वे ।
भुक्तौ यदा तत्परिपाक काले पित्रा सहैवानुमृतिश्च मातुः ॥
अथ सभौमे = मङ्गलयुक्ते वा मन्दाढ्ये = शनियुक्ते, वा फणियुजि = राहुयुक्ते, इन्दौ =
चन्द्रे, निधनगे = अष्टममुपगते तु जातस्यापस्मारः = मृगी रोगः स्यात् । अथवा कृशतनौ=
क्षीणज्योतिषि ( नष्टबले ) इन्दौ = चन्द्रे पूर्वोक्तलक्षणे सति तस्यापस्मारान्मरणं स्यादिति ।
तथा हि सर्वार्थचिन्तामणौ-
रन्ध्रे शशाङ्के फणिनाथयुक्ते हीने त्वपस्मारयुतः समन्दे ।
तत्र स्थिते हीनबले शशाङ्के पिशाचपीडा जलजा च पीडा ॥
भौमाहिमन्दान्यतमेन युक्ते क्षीणे शशाङ्के निधनस्थितेऽपि ।
दुःस्थे त्वपस्मारभयान्मृतिः स्यात् पिशाचपीडा त्वथवा मृतिः स्यात् ॥६२॥
नवमेश, लग्नेश और चतुर्थेश त्रिकोणमें वा केन्द्रमें हों तो उनकी दशाभुक्तिमें मुनिगण
अनुमरण उनका (माता पिताका) कहे हैं । यदि चन्द्रमा-मंगल या शनि या राहुके साथ
अष्टममें हो वा चन्द्रमा निर्बल हो तो मृगी रोगसे मृत्यु होवे ॥ ६२ ॥
चन्द्रे वित्तगतेऽथवा निधनगे जातो बहुस्वेदवान्
कर्मस्थानगते कुजे बुधयुते दुर्गन्धदेहो भवेत् ।
पापे रन्ध्रगते तु पापसहिते रोगप्रमादाकरः
सौम्यव्योमगृहेऽतिशोभनयुते जातः समोदः सुखी ॥ ६३ ॥
स्पष्टार्थ एवैत्यलम् ॥ ६३ ॥
चन्द्रमा द्वितीय भावमें अथवा अष्टममें हो तो जातक बहुत स्वेद ( पसीना ) वाला
हो । दशममें मंगल बुधसे युक्त हो तो दुर्गन्ध देह हो । अष्टममें पापग्रह पापयुक्त हो तो