जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 456, कुल 588 में से
संदर्भ में पढ़ें४३० सटीकजातकपारिजाते-
दिङ्ग्जातमात्रं प्रवदेत् कलत्रं पुंसोऽङ्गनायाश्च पतिं तथैव ॥
कामस्थकामाधिपभार्गवानामृक्षं दिशं शंसति तस्य पत्न्याः ॥ इति ॥ ३३ ॥
पुरुषके चन्द्रमासे सप्तममें स्थित तथा सप्तमको देखनेवाले ग्रह उसकी राशि में उत्पन्न
होनेवाली स्त्री अत्यन्त सुन्दरी और पतिप्रिया होती है । स्त्री जातकमें ऐसा हो तो स्त्रियों
के मनोरथ पूर्ण करनेवाला पति होता है । शुक्रसे सप्तमेशकी दिशाकी स्त्री कहे । याने जातक
की शादी शुक्रसे सप्तमेशकी दिशामें कहनी चाहिये ॥ ३३ ॥
अथ वरवधूजातकसंयोगः ।
इदानीं वरस्य वध्वाश्च जातकसंयोगमाहेत आरभ्य श्लोकश्चतुर्द्दशभिः-
धनावसानस्मरयानरन्ध्रगो धरासुतो जन्मनि यस्य दारहा ॥
तथैव कन्याजनजन्मलग्नतो यदि क्ष्मासूनुरनिष्टदः पतेः ॥ ३४ ॥
धनेति । यस्य पुरुषस्य जन्मनि = जन्मकाले धरासुतः = मङ्गलः, धनावसानस्मर-
यानरन्ध्रगः = द्वितीय-द्वादश-सप्तम-चतुर्थाष्टमानामन्यतमगतः स्यादसौ पुरुषो दारहा =
स्त्रीविनाशकः भवेदर्थात्तस्य नरस्य स्त्री न जीवेदित्यर्थः ।
कन्याजनजन्मलग्नतो यदि क्ष्मासूनुः = मङ्गलः तथैव = धनावसानस्मरयानरन्ध्र-
( २।१२।७।४।८ ) गतः स्यात् तदा पतेः = स्वामिनः अनिष्टदः = मृत्युकरः भवेदिति ।
अत्र योगे जाता कन्याऽपि भर्तृविनाशिनी भवतीति भावः । अत्र वध्वा वरस्य च जन्म-
लग्नगतो भौमोऽशुभ उक्तः । अत्रोपलभ्यतेऽपि विशेषवचनम्-
“लग्ने व्यये च पाताले जामित्रे चाष्टमे कुजे ।
कन्या भर्तृविनाशाय भर्त्ता कन्याविनाशकृत्” इति ॥ ३४ ॥
जिस पुरुषके द्वितीय, द्वादश, सप्तम, चतुर्थ वा अष्टममें मंगल हो वह (दारहा) स्त्री
का नाशक होवे । इसी प्रकार कन्या के लग्नसे (२-४-७-८-१२) भावमें यदि मंगल हो
तो पतिका अनिष्ट करनेवाली होती है । “धना” की जगह “लग्ना” पाठमें अन्य ग्रन्थोंसे
भी सहयोग होगा । क्योंकि “लग्ने व्यये च पाताले जामित्रे चाष्टमे कुजे” इससे १-४-७-८
१२ ये स्थान अनिष्टकर अन्य ग्रन्थोंमें दृष्टि गोचर होते हैं ॥ ३४ ॥
क्रूरव्योमचरः स्त्रीणामष्टमस्थो विलग्नतः ।
नीचारिपापवर्गेषु यदि मृत्युकरः पतेः ॥ ३५ ॥
क्रूरैति । क्रूरव्योमचरः = कश्चित्पापग्रहः नीचारिपापवर्गेषु विद्यमानः सन् यदि स्त्रीणां
विलग्नतः=जन्मलग्नात् अष्टमस्थो भवेत् तदा तस्याः पतेः=स्वामिनः मृत्युकरो भवेदिति॥३५॥
स्त्रियोंके लग्नसे अष्टम क्रूरग्रह नीच, शत्रु, पापके वर्गमें हो तो पतिकी मृत्यु करने
वाला होता है ॥ ३५ ॥
द्यूनकुटुम्बगतौ यदि पापौ दारवियोगजदुःखकरौ तौ ।
तादृशयोगजदारयुतश्चेज्जीवति पुत्रधनादियुतश्च ॥ ३६ ॥
द्यूनकुटुम्बगताविति । पापौ = द्वौ पापग्रहौ यदि द्यूनकुटुम्बगतौ = सप्तमद्वितीयगतौ
भवेताम्, (एकः सप्तमे, एको द्वितीये इति) तदा तौ दारवियोगजदुःखकरौ = स्त्रीवियोग-
जनितदुःखदायिनौ भवेताम् । अस्मिन्योगे जातस्य पुरुषस्य स्त्री म्रियत इत्यर्थः । अथासौ
पुरुषो यदि तादृशयोगजदारयुतः = तादृशे योगे ( द्यूनकुटुम्बगतौ यदि पापावित्यस्मिन् )
जातः दारैः (स्त्रीभिः) युतो भवेत् अर्थात् तस्य जातस्य स्त्रिया जन्मकुण्डल्यामपि पापौ द्वितीय-
सप्तमौ भवेतां तदा पुत्रधनादियुतश्च जीवति । न तदानीं दम्पत्योरकाले मरणमिति भावः॥३६॥
यदि पापग्रह सप्तम और द्वितीय स्थानमें हों तो दोनों स्त्रीवियोगोत्पन्न दुःख देनेवाले
होवें । ऐसे ही योगवाली उसकी स्त्री हो तो पुत्र धनादिसे युक्त होकर जीवे ॥ ३६ ॥