जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 453, कुल 588 में से
संदर्भ में पढ़ेंसप्तमाष्टमनवमभावफलाध्यायः ॥१४॥ ४१७
जीवे मित्रनवांशके बलयुते यद्येकदारान्वितः
स्वांशे द्वित्रिकलत्रवान् बहुवधूनाथः स्वतुङ्गांशके ॥ २७ ॥
इदानीं जातस्य विवाहसमयमाह—लग्नेति । लग्नानङ्गपतिस्फुटैक्यग्रहगे = जन्म-
लग्नेशस्य सप्तमेशस्य च पृथक् पृथक् यत्स्पष्टराश्यादिकं तयोर्योगे कृते यद्राश्यादिकं भवे-
तस्मिन् सञ्चारेण गतवति जीवे = गुरौ जातस्य विवाहं वदेत् । अथवा जन्मकाले चन्द्रा-
धिष्ठिततारकायाः = चन्द्रो यस्मिन्नक्षत्रे भवेत्तस्य यत्स्पष्टराश्यादिकं, तथा वधूपस्य = स-
प्तमेशस्य यत्स्पष्टराश्यादिकं तयोरैक्यांशके = योगे कृते सति यन्नवांशस्तस्मिन् गतवति
गोचरीयजीवे सति तथा = जातस्य विवाहं वदेदिति ।
अथैकदारमाह—जीव इति । जन्मकाले बलयुते = पूर्वोक्तबलसहिते जीवे = गुरौ मित्र-
नवांशके च व्यवस्थिते सति जात एकदारान्वितः = एकस्त्रीयुतो भवति ।
अथ द्वित्रिकलत्रमाह—स्वांश इति । बलयुते जीवे स्वांशे = धनुर्मीनान्यतरराशिनवांशे
सति जातः द्वित्रिकलत्रवान् भवति ।
अथ बहुदारमाह—बह्विति । तस्मिन्नेव बलयुते जीवे स्वतुङ्गांशके = स्वोच्च-(कर्क-)
राशिनवांशे गतवति जातः बहुवधूनाथः=त्र्यधिकवनितापतिर्भवतीति ॥ २७ ॥
लग्नेश और सप्तमेशके स्पष्ट राश्यादिके योगतुल्य राशिमें जब गोचरीय बृहस्पति हो
तब विवाह होना कहे । वा चन्द्राधिष्ठित नक्षत्र और सप्तमेशके योगतुल्य अंशमें गुरुके
होने पर विवाह कहे । यदि गुरु मित्रके नवांशमें हो तो एक ही स्त्रीसे युक्त हो । स्वांशमें
हो तो दो तीन स्त्रीवाला हो । उच्चांशमें हो तो बहुत स्त्रियोंका स्वामी होवे ॥ २७ ॥
कलत्रनाथस्थितभांशकेशयोः सितक्षपानायकयोर्बलीयसः ।
दशागमे द्यूनपयुक्तभांशकत्रिकोणगे देवगुरौ करग्रहः ॥ २८ ॥
इदानीं विवाहकालज्ञाने प्रकारान्तरमाह—कलत्रेति । कलत्रनाथस्थितभांशकेशयोः =
सप्तमेशः स्थितो यस्मिन् ये = राशौ, अंशके = नवांशे च तदीशयोः मध्ये बलीयसो
ग्रहस्य दशागमे, वा सितक्षपानायकयोः = शुक्रचन्द्रयोर्मध्ये बलीयसो ग्रहस्य दशागमे =
महादशाकाले, द्यूनपेन = जन्मलग्नातसप्तमेशेन युक्तो यो राश्यंशकस्तस्मात् त्रिकोणे (५।९)
गतवति गुरौ च जातस्य करग्रहः = विवाहो वाच्यः ।
Notes—अत्र लग्नचन्द्रयोर्बलीयसः पक्षो ग्राह्यः । अर्थात् यदि चन्द्रो बलीयांस्तदा
सितक्षपानायकयोर्बलीयसः दशागमे इति, लग्ने बलीयसि कलत्रनाथस्थितभांशकेशयोः
बलीयसः दशागमे इति पक्षः स्वीकार्यः । लग्नाच्चन्द्राद्वा भावविचारस्य विहितत्वादिति ॥
सप्तमेश जिस राशि और नवांशमें हो उनके स्वामियोंमें, वा शुक्र और चन्द्रमामें जो
अधिक बली हो उसकी दशामें सप्तमेश युत, राश्यंशके त्रिकोणमें गुरुके होनेपर विवाह
कहे ॥ २८ ॥
शुक्रोपेतकलत्रराशिपदशाभुक्तिर्विवाहप्रदा
लग्नाद्वित्तपतिस्थराशिपदशाभुक्तौ च पाणिग्रहः ॥
कर्मायुर्भवनाधिनायकदशाभुक्तौ विवाहः क्रमात्
कामेशेन युतः कलत्रगृहगस्तत्पाकभुक्तौ तु वा ॥ २६ ॥
इदानीमन्यानपि विवाहसमयानाह—शुकोपेतेति । •शुक्रेण उपेतस्य = सहितस्य कल-
त्रराशिपस्य = सप्तमभावेशस्य दशाभुक्तिः विवाहप्रदा भवति । यस्य जन्मसमये सप्तमेशः
शुक्रसंयुक्तः स्यात्तस्य सप्तमेशदशान्तर्दशाकाले विवाहो भवतीत्यर्थः ।